SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ॥३०॥ आदिश्यतां मूलदेवोऽप्यस्मिन्नर्थे भुजिष्यया। विवेके ज्ञायते मातद्वयोरपि यथाऽन्तरम् ॥१०७॥ मूलदेवोऽपि चेट्योक्त इथूनादाय पञ्चषान् । मूला-ऽग्राणि त्यजन् मङ्क्ष निस्ततक्ष विचक्षणः ॥१०८।। कठोरत्वेन दुश्चर्वपर्वग्रन्थीन् परित्यजन् । द्वथङ्गुला गण्डिकाचक्रे पीयूषस्येव कुण्डिकाः ॥१०९।। चतुतिन संस्कृत्य कर्पूरेणाधिवास्य च । शूलप्रोता वर्द्धमानसंपुटे प्राहिणोत् स ताः ॥११०॥ देवदत्ताऽपि ताः प्रेक्ष्य बभाषे शम्भलीमिति । धूर्तशा-ऽचलयोः पश्य स्वर्ण-रीयर्योरिवान्तरम् ॥१११॥ कुट्टन्यचिन्तयदहो महामोहान्धमानसा । मृगीव मृगतृष्णाम्भो धूर्तमेषाऽनुधावति ॥११२॥ स कोऽप्युपायः क्रियते येन निष्कास्यते पुरात् । अत्युष्णजलसेकेन बिलादिव महोरगः ॥११३॥ कुट्टनी मूलदेवस्योच्चाटनायाचलं जगौ । कर्तव्यः कृत्रिमो ग्रामगमनोपक्रमस्त्वया ॥११४॥ ग्रामे यास्यामीत्यलीकं सार्थवाह त्वमनसा । कथयेर्देवदत्ताया विश्रब्धा सा यथा भवेत् ॥११५॥ ततो ग्रामान्तरगतं श्रुत्वा त्वां धूर्तपांसनः । निःशवं देवदत्तायाः स समीपमुपैष्यति ॥११६॥ देवदत्तान्तिके मूलदेवे दीव्यति निर्भरम् । आगच्छेः सर्वसामग्रथा मत्सङ्केतेन सुन्दर ॥११७।। ततस्तथा कथमपि त्वमेतमवमानयेः । यथैतां न भजेद् भृयस्तित्तिरीमिव तित्तिरिः ॥११८॥ तत्तथा प्रतिपद्याथ यास्यामि ग्राममित्यसौ। आख्याय देवदत्ताया द्रव्यं दत्वा च निर्ययौ ॥११९।। १ 'मुपेष्यति खं.॥ २ त्वमेन' खं.॥ ३ तित्तिरः खं. ॥ ॥३०॥ Jain Education Intem ७७ For Private & Personal Use Only .jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy