________________
स्वोपज्ञ• वृत्तिविभूषित
द्वितीयः प्रकाशा श्लोकः ७२ ||३०||
योगशास्त्रम्
॥३०॥
अमुष्य इतकारस्य गुणास्तिष्ठन्ति कीदृशाः । इति कोपाज्जनन्योक्ता देवदत्तेत्यभाषत ॥९५।। धीगे वदान्यो विद्याविद् गुणरागी स्वयं गुणी। विशेषज्ञः शरण्योऽयं नामुं त्यक्ष्यामि तत् खलु ॥९६॥ ततश्च कुट्टनी रुष्टा कूटजुष्टा प्रचक्रमे । उच्चाटयितुं तनयां स्वैरिणीं वैरिणीमिव ॥१७॥ साऽदात्तयाऽणिते माल्ये निर्माल्यं सरके पयः । इक्षुखण्डे वंशखण्डं श्रीखण्डे नीपखण्डलम् ॥९८॥ सकोपं देवदत्तोक्ता कुट्टनी कुटिलाऽब्रवीत् । मा कुपः पुत्रि यादृक्षो यक्षस्तादृग् बलिः किल ॥१९॥ लतेव कण्टकितरं किमालम्ब्य स्थिताऽस्यमुम् । सर्वथा मूलदेवं तत् त्यजाऽपात्रमिमं पतिम् ॥१०॥ अवादीदेवदत्तवं मातः किमिति मुह्यसि । पुमान् पात्रमपात्रं वा किमुच्येतापरीक्षितः ॥१०॥ परीक्षा क्रियतां तीत्युक्ता साक्षेपमम्बया । मुदिता देवदत्तैवमादिदेश स्वचेटिकाम् ॥१०२।। यदिक्षौ देवदत्ताया अभिलाषोऽद्य विद्यते । प्रेष्यन्तामिक्षवः सार्थवाहाऽचल ततस्त्वया ॥१०॥ तयोक्त: सार्थवाहोऽपि धन्यमानी प्रमोदतः । शकटानीक्षपूर्णानि प्रेषयामास तत्क्षणात् ॥१०४।। हृष्टा कुट्टन्युवाचैवमचलस्वामिनो हले । अचिन्तनीयमौदायं पश्य चिन्तामणेरिव ॥१०५।।
विषण्णा देवदत्तोचे किमम्बाऽस्मि करेणुका । भक्षणायेक्षवः क्षिप्ता यत् समूल-दला-ऽग्रकाः ॥१०६।। १ वीरो शां. ॥ २ कुट्टिनी मु. । एवमग्रेऽपि ॥ ३ स्वैरिणी शां. मु.॥ ४ तत्प्रार्थिते खं. ॥ ५ शरके मु.। सरको मद्यविशेषः ।।
Jain Education Inter
For Private & Personal Use Only
w.jainelibrary.org