SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाशः श्लोकः ७२ ॥३०२॥ ॥३०२।। छन्नवेषं मूलदेवं सा नीत्वा राजवेश्मनि । राज्ञोऽग्रे नृत्तमारेभे रम्भेव करणोज्ज्वलम् ॥६९।। शक्रपाटहिकसमः पाटप्रकटने पटुः। मूलदेवोऽपि निपुणोऽवादयत् पटहं ततः ॥७०।। राजारज्यत नत्तेन तस्याः करणशालिना । प्रसादं मार्गयेत्युचे तं च न्यासीचकार सा ॥७॥ सा मूलदेवसहिता जगौ चानु ननत्त च । ददौ चास्यै नृपस्तुष्टः स्वाङ्गलग्नं विभूषणम् ॥७२।। पाटलीपुत्रराजस्य राजदौवारिकस्ततः । हृष्टो विमलसिंहाख्य इत्युवाच महीपतिम् ।।७३।। अयं हि पाटलीपुत्रे मूलदेवस्य धीमतः । कलाप्रकर्षोऽमुष्या वा न तृतीयस्य कस्यचित् ॥७४।। ततः प्रदीयतां देव मूलदेवादनन्तरम् । विज्ञानिषु च पट्टोऽस्यै पताका नर्तकीषु च ।.७५।। ततो राज्ञा तथा दत्त साऽब्रवीदेष मे गुरुः। ततः प्रसादमादास्ये स्वामिनस्याभ्यनुज्ञया ।।७६।। राजाऽप्यवोचत् तदियं महाभागानुमन्यताम् । धूर्तेोऽप्यवादीघद्देव आज्ञापयति तत् कुरु ।।७७।। अत्रान्तरे धूर्तराजो वीणां स्वयमवादयत् । हरन् मनांसि विश्वेषां विश्वावसुरिवापरः ॥७८|| ततो विमलसिंहेन बभाषे देव खल्वयम् । मूलदेवश्छन्नरूपो नापरस्येशी कला ॥७९॥ विज्ञानातिशयस्यास्य प्रयोक्ता नापरः क्वचित् । मूलदेवं विना देव सर्वथाऽसौ स एव तत् ॥८॥ राजा जगाद यद्येवं तदाहो स्वं प्रदर्शय । दर्शने मूलदेवस्य रत्नस्येवास्मि कौतुकी ।।८१।। १ नृत्यमा मु. शां. ॥ Jain Education Inter For Private & Personal Use Only Paw.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy