SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ॥३०१।। अनङ्गमिव जाताङ्गं तं लावण्यैकसागरम् । उद्वीक्ष्य विस्मिता सोचे प्रसादः साधु मे कृतः ॥५६।। तस्यापयित्वा स्नानीयं पोतं प्रीता स्वपाणिना। अङ्गाम्यङ्गं व्यरचयद्देवदत्ताऽनुरागिणी ॥५७॥ खलिप्रक्षालनापूर्व पिष्टातकसुगन्धिभिः। कवोष्णवारिधाराभिस्ततो द्वावपि सस्नतुः ।।५८।। देवदूष्ये देवदत्तोपनीते पर्यधत्त सः । सुगन्ध्याढ्यानि भोज्यानि बुभुजाते समं च तौ ॥५९।। रहाकलारहस्यानि वयस्यीभूतयोस्तयोः । मिथः कथयतोरेकः क्षणः सुखमयो ययौ ॥६०॥ ततः सा व्याजहावं हृतं मे हृदयं त्वया । गुणेर्लोकोत्तरैर्नाथ प्रार्थयेऽहं तथाऽप्यदः ॥६१॥ यथा पदमकार्षीस्त्वं हृदये मम सुन्दर । विदधीथास्तथा नित्यमस्मिन्नेव निकेतने ॥६॥ मूलदेवोऽप्युवाचवं निर्धनेषु विदेशिषु । अस्मादृशेषु युष्माकमनुबन्धो न युज्यते ॥६३॥ गुणानां पक्षपातेनानुरागो निधनेऽपि चेत् । वेश्यानामर्जनाभावात् कुलं सीदेत्तदाऽखिलम् ॥१४॥ बभाषे देवदत्ताऽपि को विदेशो भवादृशाम् । सर्वः स्वदेशो गुणिनां नृणां केसरिणामिव ॥६५।। आत्मानमर्थयन्त्यर्थेमूर्खा हि बहिरेव नः । प्रवेशं न लभन्तेऽन्तर्विना त्वां गुणमन्दिर ॥६६॥ सर्वथा प्रतिपत्तव्यं त्वया सुभग मद्वचः। इत्युक्ते मूलदेवेनाप्यामेति जगदे वचः ॥६७।। ततश्च क्रीडतोः स्नेहाद्विनोदैविविधैस्तयोः । राजद्वाःस्थोऽब्रवीदेत्याऽऽगच्छ प्रेक्षाक्षणोऽधुना ॥६८।। १ काषीस्त्वं शां. खं.॥ २'मन्दिरं खं. ॥ ॥३०॥ Jain Education Inter ७६ For Private & Personal Use Only Mjainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy