SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ।।२९९।। Jain Education Innal कथं ज्ञायत इत्युक्तस्तयाऽऽदाय स वल्लकीम् । वंशादश्मानमाकृष्य तन्त्र्याः केशमदर्शयत् ||३०|| समारचय्य तां वीणां ततः स्वयमवादयत् । श्रोतृकर्णेषु पीयूषच्छटामिव परिक्षिपन् ॥ ३१ ॥ देवदत्ताऽब्रवीन्नैव सामान्यस्त्वं कलानिधे । नररूपं प्रपेदाना साक्षादसि सरस्वती ||३२|| वीणाकाररणयोः प्रणिपत्येत्यवोचत । स्वामिन् शिक्षे भवत्पार्श्वे वीणावाद्यं प्रसीद मे ||३३|| मूलदेवो जगादेवं सम्यग् जानामि न ह्यहम् । किन्तु जानामि तान् ये हि सम्यग् जानन्ति वल्लकीम् ||३४|| के नाम ते त्र सन्तीति पृष्टोऽसौ देवदत्तया । अवोचदस्ति पूर्वस्यां पाटलीपुत्रवत्तनम् ||३५|| तस्मिन् विक्रमसेनोऽस्ति कलाचार्यो महागुणः । मूलदेवोऽहं च तस्य सदाप्यासनसेवकः || ३६ || अत्रान्तरे विश्वभूतिर्नाटियाचार्यः समागतः । साक्षाद् भरत इत्यस्मै कथितो देवदत्तया ||३७| मूलदेवोऽप्येवमूचे सत्यमेवायमीदृशः । ग्राहिताभिः कलां युष्मादृशीभिरपि लक्ष्यते ॥ ३८ ॥ विश्वभूतिरुपक्रान्ते विचारे भारते ततः । तं खर्च इत्यवाज्ञासीद् बाह्यार्थज्ञा हि तादृशाः || ३९ ॥ मेने च धूर्त्तराजेन विद्वन्मान्ययमस्य तत् । ताम्र-स्वर्णालङ्करणस्येवान्तर्दर्शयाम्यहम् ||४०|| स्वच्छन्दं भरते तस्य गल्भमानस्य धूर्त्तराट् । पूर्वापरविरोधाख्यं व्याख्याने दोषमग्रहीत् ||४१ ॥ विश्वभूतिस्ततः कोपाद संबद्धमभाषत । प्राज्ञैः पृष्टा छुपाध्यायाश्छादयन्त्यज्ञतां रुषा ||४२|| १ नैवं खं. ॥ For Private & Personal Use Only 5 10 ॥२९९|| www.jainelibrary.org.
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy