SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् द्वितीयः प्रकाश: श्लोकः ७२ ।।२९८॥ १२९८॥ व्याघुटन्तीं विनोदेच्छुः कलाकौशलयोगतः । स आस्फाल्य ऋजूचक्रे तां कुब्जीमन्जनालवत् ॥१७॥ वपुर्नवमिवासाद्य सानन्दा साऽपि चेटिका । उपेत्य देवदत्तायै तचेष्टितमचीकथत् ॥१८॥ देवदत्तवरेणेव देवदत्ताऽपि तेन ताम् । कुब्जामृतकृतां वीक्ष्य परमं प्राप विस्मयम् ॥१९।। देवदत्ता ततोऽवादीदीदृक्षमुपकारिणम् । निजागुलिमपि च्छित्वा तमेकच्छेकमानय ॥२०॥ ततो गत्वा समभ्यर्थ्य चाटुभिश्चतुरोचितः। अचालि वेश्माभिमुखं धृतराजो भुजिष्यया ॥२१॥ तया निर्दिश्यमानावा प्रविवेश निवेशनम् । ततोऽसौ देवदत्ताया राधाया इव माधवः ॥२२॥ तं वामनमपि प्रेक्ष्य कान्ति-लावण्यशालिनम् । सा मन्वाना सुरं छन्नमुपावेशयदासने ॥२३॥ मिथो हृदयसंवादिसंलापसुभगा ततः । तयोः प्रववृते गोष्ठी तुल्यवैदग्ध्यशालिनोः ॥२४॥ अथाऽऽगात्तत्र कोऽप्येको वीणाकारः प्रवीणधीः । वीणामवीवदत् तेन देवदत्ताऽति कौतुकात् ॥२५॥ वल्लकी वादयन्तं च व्यक्तग्राम-श्रुति-स्वराम् । धूनयन्ती शिरो देवदत्ताऽपि प्रशशंस तम् ॥२६॥ स्मित्वाऽवदन्मूलदेवोऽप्यहो उज्जयिनीजनः । जानात्यत्यन्तनिपुणो गुणा- गुणविवेचनम् ॥२७॥ साशङ्का साऽप्युवाचवं किमत्र क्षुणमस्त्यहो। छेक छेकप्रशंसायामुपहासं हि शङ्कते ॥२८॥ सोऽप्याचचक्षे किं क्षुणमस्ति क्वापि भवादृशाम् । सगर्भा किन्त्वसौ तन्त्री किश्च वंशोऽपि शल्यवान् ॥२९॥ १ उज्जयनी खं. । एवमग्रेऽपि ।। Jain Education Intel 6 For Private & Personal Use Only Howww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy