SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ॥२९७ ॥ Jain Education Inter चौरे चौरः साधौ साधुर्वक्रे वक्र ऋजावृजुः । ग्राम्ये ग्राम्य छेके च्छेको विटे विटो भटे भटः || ४ || द्यूतकारे द्यूतकारो वार्त्तिके वार्त्तिकश्च सः । तत्कालं स्फटिकाश्मेव जग्राह पररूपताम् ||५|| चित्रैः कौतूहलैस्तत्र लोकं विस्मापयन्नसौ । विद्याधर व स्वैरं चचार चतुराग्रणीः ||६|| द्यूतकव्यसनासक्तिदोषात् पित्राऽपमानितः । सत्पुरश्रीजयिन्यामुञ्जयिन्यां जगाम सः ॥७॥ गुलिकायाः प्रयोगेण स भूत्वा कुब्जवामनः । पौरान् विस्मापयंस्तत्र कलाभिः ख्यातिमासदत् ||८|| तत्रासीद् रूप लावण्य-कला-विज्ञान कौशलैः । दत्तपत्रा रतेर्देवदत्तेति गणिकोत्तमा ||९| 3 गुणः कलावतां यो यः प्रकृष्टा तत्र तत्र सा । छेकाया रञ्जने तस्याः प्रतिच्छेको न कोऽप्यभूत् ॥१०॥ मूलदेवस्ततस्तस्याः क्षोभार्थं तद्गृहान्तिके । प्रभाते गातुमारेमे प्रत्यक्ष इव तुम्बरुः ॥ ११ ॥ आकर्ण्य देवदत्ताऽपि कोऽप्येष मधुरो ध्वनिः । कस्येति विस्मयादास्याऽन्वेषयामास तं बहिः || १२ || सागत्य सा देव गन्धर्वः कोऽपि गायति । मृस्यैव वामनः पूर्णर्गुणैः पुनरवामनः || १३|| देवदत्ता ततः कुब्जां माधवीं नाम चेटिकाम् । प्रजिघाय तमाह्नातुं प्रायो वेश्याः कलाप्रियाः || १४ || सा गत्वा तं जगादेदं महाभाग कलानिधे । देवदत्ता स्वामिनी मे त्वामाह्वायति गौरवात् ||१५|| मूलदेवोऽवदद् गच्छ नागमिष्यामि कुब्जिके । कुट्टिनीवश्यवेश्यानां स्ववशो वेश्म को विशेत् ||१६|| १ 'जयन्या खं. ॥ २ ज्जयन्यां खं ॥ ७५ ४ तुम्बुरुः खं. ॥ ३ वत्तत्रा मु. ॥ For Private & Personal Use Only 5 10 ॥२९७॥ www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy