SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ |॥२९ ॥ एकस्य न तु बहनाम् , एक क्षणं न तु बहुकालम् , दुःखमसातं मार्यमाणस्य हिस्यमानस्य । स्तेयकारिणा त्वपहृते धने परस्य सपुत्र पौत्रस्य, न त्वेकस्य, यावज्जीवं न त्वेकं क्षणं दुःखं जायत इति संबन्धः ॥८॥ उक्तमपि स्तेयफलं प्रपञ्चेनाह चौर्यपापद्रुमस्येह वध-बन्धादिकं फलम् ।। जायते परलोके तु फलं नरकवेदना ॥६९॥ चौर्यात् पापम् , तदेव द्रुमः, तस्येह लोके फलं वधबन्धादिकम् , परलोके तु फलं नरकभाविनी वेदना ॥६९॥ अथ कदाचित् प्रमादात् स्तेयकारी नृपतिभिर्न निगृह्यत तथाप्यस्वास्थ्यलक्षणमैहिकं फलमवस्थितमेव इत्याह दिवसे वा रजन्यां वा स्वप्ने वा जागरेऽपि वा। सशल्य इव चौर्येण नैति स्वास्थ्यं नरः क्वचित् ॥७०॥ स्वमः स्वापः, जागरो निद्राया अभावः, चौर्येण हेतुना क्वचिदपि स्थाने ।।७०।। न केवलं स्तेयकतः स्वास्थ्याभाव एव किन्त बन्धमिः परित्यागोऽपीत्याह मित्र-पुत्र-कलत्राणि भ्रातरः पितरोऽपि हि । संसजन्ति क्षणमपि न म्लेच्छैरिव तस्करैः ॥७१।। १ संसृजन्ति खं.॥ ॥२९॥ Jain Education Manal For Private & Personal Use Only | www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy