SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाश: श्लोकः ६८ ॥२९॥ ॥२९४|| पतितं विस्मृतं नष्टं स्थितं स्थापितमाहितम् । अदत्तं नाददीत स्वं परकीयं क्वचित् सुधीः ॥६६॥ पतितं गच्छतो वाहनादेर्भेष्टम् , विस्मृतं क्वापि मुक्तमिति स्वामिना यन्न स्मयंते, नष्ट क्वापि गतमिति स्वामिना यन्न ज्ञायते, स्थितं स्वामिपार्वे यदवस्थितम् , स्थापितं न्यासीकृतम् , आहितं निधीकृतम्, तदेवंविधं परकीयं स्वं धनमदत्तं सन्नाददीत क्वचिद् द्रव्यक्षेत्राद्यापद्यपि सुधीः प्राज्ञः ॥६६॥ इदानीं स्तेयकारिणो निन्दति अयं लोकः परलोको धर्मो धैर्य धृतिर्मतिः । मुष्णता परकीयं स्वं मुषितं सर्वमप्यदः ॥६७॥ परकीयं स्वं धनं मुष्णता अपहरता सर्वमप्यद एतत् स्वं स्वकीयं मुषितं स्वशब्दस्योभयत्र संबन्धात् । किं तदित्याह-अयं लोकः, अयं प्रत्यक्षेणोपलभ्यमानो लोकः, इदं जन्मेत्यर्थः, परलोको जन्मान्तरम् , धर्मः पुण्यम् , धैर्यमापत्स्वप्यवैक्लव्यम् , धृतिः स्वास्थ्यम् , मतिः कृत्याकृत्यविवेकः ॥६७॥ अथ हिंसाकारिभ्योऽपि स्तेयकारिणो बहुदोषत्वमाह एकस्यैकं क्षणं दुःखं मार्यमाणस्य जायते । सपुत्र-पौत्रस्य पुनर्यावजीवं हृते धने ॥६॥ Jain Education Inte For Private & Personal Use Only Miw.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy