SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ॥२९३।। शिखी मुण्डी जटी नग्नश्चीवरी यस्तपस्यति । सोऽपि मिथ्या यदि ब्रूते निन्द्यः स्यादन्त्यजादपि ॥९॥ एकत्रासत्यजं पापं पापं निःशेषमन्यतः। द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥१०॥ पारदास्कि-दस्यूनामस्ति काचित् प्रतिक्रिया । असत्यवादिनः पुंसः प्रतीकारो न विद्यते ॥११॥ कुर्वन्ति देवा अपि पक्षपातं नरेश्वराः शासनमुद्वहन्ति । शान्तीभवन्ति ज्वलनादयो यत् तत् सत्यवाचा फलमामनन्ति ॥१२॥ इति द्वितीयं व्रतमुक्तम् ॥६४॥ इदानी तृतीयमस्तेयव्रतमुच्यते । तत्रापि फलानुपदर्शने न स्तेयान्निवर्तत इति फलोपदर्शनपूर्व स्तेयनिवृत्तिमाह दौर्भाग्यं प्रेष्यतां दास्यमङ्गच्छेदं दरिद्रताम् । अदत्तात्तफलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत् ॥६५॥ दौर्भाग्यमुद्वेजनीयता, प्रेष्यता परकर्मकरत्वम् , दास्यमङ्कपातादिना परायत्तशरीरता, अङ्गच्छेदः कर-चरणादिच्छेदः, दरिद्रता निर्धनत्वम् । एतानीहामुत्र चादत्तादानफलानि शास्त्रतो गुरुमुखाद्वा ज्ञात्वा स्थूलं चौरादिव्यपदेशनिबन्धनं स्तेयं विवजयेच्छावकः ॥६५॥ स्थूलस्तेयपरिहारमेव प्रपश्चयति१ शीतीभ मु.॥ ॥२९३॥ Jain Education Inter For Private & Personal Use Only Tww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy