________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
द्वितीयः प्रकाश: श्लोकः ६४ ॥२९॥
॥२९२॥
अलीकं ये न भाषन्ते सत्यवतमहाधनाः ।
नापराद्धुमलं तेभ्यो भूत-प्रेतोरगादयः ॥६४॥ भूता भूतोपलक्षिताः व्यन्तराः, प्रेताः पितरो ये स्वसंबन्धिनो मनुष्यान् पीडयन्ति, भूत-प्रेतग्रहणं भुवनपत्यादीनामुपलक्षणार्थम् । उरगाः सर्पाः, आदिग्रहणाद् ध्याघ्रादीनां परिग्रहः ।
अत्रान्तरश्लोका:अहिंसापय सः पालिभूतान्यन्यव्रतानि यत् । सत्यभङ्गात् पालिभङ्गेऽनर्गलं विप्लवेत तत् ॥१॥ सत्यमेव वदेत् प्राज्ञः सर्वभूतोपकारकम् । यद्वा तिष्ठेत् समालम्ब्य मौनं सर्वार्थसाधकम् ॥२॥ पृष्टेनापि न वक्तव्यं वचो वैरस्य कारणम् । मर्मावित् कर्कशं शङ्कास्पदं हिंस्रममयकम् ॥३॥ धर्मध्वंसे क्रियालोपे स्वसिद्धान्तार्थविप्लवे । अपृष्टेनापि शक्तेन वक्तव्यं तनिषेधितुम् ॥४॥ चार्वाकैः कौलिकैविप्रैः सौगतैः पाश्चगत्रिकः । असत्येनैव विक्रम्य जगदेतद्विडम्बितम् ॥५॥ अहो पुरजलस्रोतःसोदरं तन्मुखोदरम् । निःसरन्ति यतो वाचः पङ्काकुलजलोपमाः ॥६॥ दवानलेन ज्वलता परिप्लुष्टोऽपि पादपः। सान्द्रीभवति लोकोऽयं न तु दुर्वचनाग्निना ॥७॥ चन्दनं चन्द्रिका चन्द्रमणयो मौक्तिकस्रजः। आहादयन्ति न तथा यथा वाकू सूनृता नृणाम् ॥८॥
Jain Education Intel
For Private & Personal Use Only
Howw.jainelibrary.org