SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ।। २९० ।। Jain Education Int अल्पमप्यसत्यवचनं प्रतिषेधितुं महदसत्यं वदतः परिदेवयते- अल्पादपि मृषावादाद्रौरवादिषु संभवः । अन्यथा वदतां जैनीं वाचं त्वहह का गतिः ||६२ || अल्पादप्यैकार्थविषयत्वेन स्तोकादपि मृषावादादसत्याद्रौरवादिषु रौरव - महारौरवप्रभृतिषु नरकावासेषु संभव उत्पत्तिः, लोकप्रसिद्धत्वाद्रौरवग्रहणम्, अन्यथा सर्वनरकेष्वित्युच्येत । अन्यथा विपरीतार्थतया जैनीं वाचं वदतामतीवासत्यवादिनां कुतीर्थकानां स्वयूथ्यानां च निह्नवादीनां का गतिः ! नरकादप्यधिका तेषां गतिः प्राप्नोतीत्यर्थः । अति खेदे, अशक्यप्रतीकाराः परिदेवनीयाः खल्वेत इति । यदाह अनपावतपनवणमणुमवि दुरंतं । जं मिरिइभवतद जियदुक्कय अवसेसलेसवसा ॥१॥ सुरथुयगुणो व तित्थंकरो वि तिहुयणअतुल्लमल्लो वि । गोवाइहिं वि बहुसो कअस्थिओ तिजयपहुसंसि ||२|| १ अहह सकलान्यपापेभ्यो वितथप्रज्ञापनमण्यपि दुरन्तम् । यन्मरीचिभवतदर्जितदुष्कृतावशेषले शवशात् ॥ सुरस्तुतगुणोऽपि तीर्थङ्करोऽपि त्रिभुवनातुल्य मल्लोऽपि । गोपादिभिरपि बहुशः कदर्थितबिजगत्प्रभुत्वे ॥ स्त्री-गो-ब्राह्मण-भ्रूणान्तका अपि केsपि दृढप्रहार्यादयः । बहुपापा अपि प्रसिद्धाः सिद्धाः किल तस्मिन्नेव भवे ॥ २ पावाहि खं. ॥ ३ मिरिई० खं. ॥ ४ हु तं सि खं. अत्र यदि पहु तं सि इति पाठ: स्यात् तदा ' त्रिजगत्प्रभुस्त्वमसि' इत्यर्थो भवेत् ॥ For Private & Personal Use Only द्वितीय: प्रकाश: श्लोक ६२ ॥ २९० ॥ 5 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy