________________
॥२८९ ॥
Jain Education Inte
सत्यमपि भाषेत परपीडाकरं वचः ।
लोकेऽपि श्रूयते यस्मात् कौशिको नरकं गतः || ६१||
सत्यमवितथं लोकरूड्या, परमार्थतस्तु परपीडाकरत्वादसत्यमेवेत्यर्थः तन्न भाषेत तद्भाषणान्नरकगमनश्रुतेः । अत्रार्थे लौकिकं दृष्टान्तमाह — लोकेऽपि समयान्तरेऽपि श्रूयते निशम्यते परपीडाकरसत्यभाषणेन कौशिको नरकं गत इति । कौशिकस्तु सम्प्रदायगम्यः स चायम् —
आसीत् सत्यधनः कोऽपि कौशिको नाम तापसः । अपास्य ग्रामसंवासमनुगङ्गमुवास सः ॥ १ ॥ कन्दमूलफलाहारो निर्ममो निष्परिग्रहः । सत्यवादितया प्राप प्रसिद्धि परमामसौ ||२|| मुषित्वा ग्राममन्येद्यस्यवस्तस्य पश्यतः । आश्रमं निकषा जग्मुर्वनं बिलमिवोरगाः ||३|| तेषामनुपदिनस्तु ग्राम्याः पप्रच्छुरेत्य तम् । सत्यवाद्यसि तद् ब्रूहि तस्कराः कुत्र वत्रजुः ||४|| धर्माभिज्ञ कथयामास कौशिकः । घने तरुनिकुजेऽस्मिन् दस्यवः प्राविशन्निति ||५|| तस्योपदेशात् सन्न ग्रामीणाः शस्त्रपाणयः । वनं प्रविश्य निर्जघ्नुर्दस्यून् व्याधा मृगानिव ॥ ६ ॥ ऋतमप्यनृतं परव्यथाकरणेनेदमुदीरयन् वचः परिपूर्य निजायुरुल्बणं नरकं कौशिकतापसो ययौ || ७||६१ ||
।
२ या प्रसिद्धि प्राप खं ॥
३ बने च ड ॥
७3
१ परं खं. ॥
For Private & Personal Use Only
10
||||२८९ ॥
www.jainelibrary.org