SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ द्वितीयः प्रकाश: श्लोकः ६० विभूषितं योगशास्त्रम् ॥२८८।। !!२८८।। विप्रवृद्धस्थोचे स विवादस्त्वयि तिष्ठते । प्रमाणमनयोः साक्षी त्वं रोदस्योरिवार्यमा ॥६२॥ घटप्रभृतिदिव्यानि वर्तन्ते हन्त सत्यतः । सत्याद्वर्षति पर्जन्यः सत्यात् सिद्धयन्ति देवताः ।।६३॥ त्वयैव सत्ये लोकोऽयं स्थाप्यते पृथिवीपते । त्वामिहार्थे महे किं ब्रूहि सत्यव्रतोचितम् ॥६४॥ वचोऽश्रुत्वेव तत् सत्यप्रसिद्धिं स्वां निरस्य च । अजान् मेषान् गुरुख्यिादिति साक्ष्यं वसुर्व्यधात् ॥६५॥ असत्यवचसा तस्य क्रुद्धास्तत्रैव देवताः । दलयामासुराकाशस्फटिकासनवेदिकाम् ॥६६॥ वसुर्वसुमतीनाथस्ततो वसुमतीतले । पपात सद्यो नरकपातं प्रस्तावयन्निव ॥६७॥ कूटसाक्ष्यं प्रदातस्ते श्वपचस्येव को मुखम् । पश्येदिति वसुं निन्दनारदः स्वास्पदं ययौ ॥६८|| देवताभिरसत्योक्तिकुपिताभिर्निपातितः। जगाम घोरं नरकं नरनाथो वसुस्ततः ॥६९॥ यो यः सूनुरुपाविक्षद्राज्ये तस्यापराधिनः । प्रजघ्नुर्देवतास्तं तं यावदष्टौ निपातिताः ॥७॥ इति वसुनृपतेरसत्यवाचः फलमाकर्ण्य जिनोक्तिविद्धकर्णः । कथमप्युपरोधतोऽपि जल्पेदनृतं प्राणितसंशयेऽपि नैव ।। ७१ ॥ ६ ॥ [ इति नारद-पर्वतकथानकम् ॥ ] सदभ्यो हितं सत्यमिति व्युत्पत्या अवितथमपि परपीडाकरं वचनमसत्यमेवाहितत्वादिति सत्यमपीदृशं न भाषेतेत्याह १ घचोऽश्रुत्वैव-मु.॥ २[ ] एतदन्तर्गत: पाठो नास्ति शां. खं ।। Jain Education inte For Private & Personal use only H w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy