________________
॥२८॥
दृष्टः क्षीरकदम्बोऽद्य यदम्ब त्वमसीक्षिता । किं करोमि प्रयच्छामि कि चेत्यभिदधे वसुः ॥४९॥ साऽवादीदीयतां पुत्रभिक्षा मा महीपते । धनधान्यैः किमन्यम विना पुत्रेण पुत्रक ।।५०॥ वसुरूचे मम मातः पाल्यः पूज्यश्च पर्वतः । गुरुवद् गुरुपुत्रेऽपि वर्तितव्यमिति श्रुतेः ॥५१॥ कस्याद्य पत्रमुरिक्षप्तं कालेनाकालरोषिणा । को जिघांसुर्धातरं मे ब्रूहि मातः किमातुरा ॥५२॥ अजव्याख्यानवृत्तान्तं स्वपुत्रस्य पणं च तम् । त्वं प्रमाणीकृतश्वासीत्याख्यायाऽर्थयते स्म सा ॥५३॥ कुर्वाणो रक्षणं भ्रातरजान् मेषानुदीरय । प्राणैरप्युपकुर्वन्ति महान्तः किं पुनर्गिरा ॥५४॥ अवोचत वसुर्मातमिथ्या वच्मि वचः कथम् । प्राणात्ययेऽपि शंसन्ति नासत्यं सत्यभाषिणः ॥५५॥ अन्यदप्यभिधातव्यं नासत्यं पापभीरुणा। गुरुवागन्यथाकारे कूटसाक्ष्ये च का कथा ॥५६॥ बहुकुरु गुरोः सुनुं यद्वा सत्यव्रताग्रहम् । तया सरोषमित्युक्तस्तद्वचोऽमस्त पार्थिवः ॥५७।। ततः प्रमुदिता क्षीरकदम्बगृहिणी ययौ। आजग्मतुश्च विद्वांसो तत्र नारद-पर्वतौ ॥५८॥ सभायाममिलन सभ्या माध्यस्थ्यगुणशालिनः । वादिनोः सदसद्वादक्षीर-नीरसितच्छदाः ॥५९॥
आकाशस्फटिकशिलावेदिसिंहासनं वसुः। सभापतिरलचक्रे नभस्तलमिवोडपः ॥६॥ ततो निजनिजव्याख्यापक्षं नारद-पर्वतौ । कथयामासतू राज्ञे सत्यं बहीति भाषिणौ ॥६१॥ १ किं वे खं. त्रिषष्टिः ७ । २। ४३१ ॥ १ श्रुति: च. ड. ॥
||२८७॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org