SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ स्वोपवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाश: श्लोकः ६० ॥२८६॥ ॥२८६॥ आगाच्च नारदोऽन्येद्युस्ततश्चैक्षिष्ट पर्वतम् । व्याख्यानयन्तमृग्वेदं शिष्याणां शेमुषीजुषाम् ॥३६॥ अजैर्यष्टव्यमित्यस्मिन् मेरित्युपदेशकम् । बभाषे नारदो भ्रातर्धान्त्या किमिदमुच्यते ॥३७॥ त्रिवार्षिकाणि धान्यानि न हि जायन्त इत्यजाः । व्याख्याता गुरुणाऽस्माकं व्यस्मार्षीः केन हेतुना ॥३८॥ ततः पर्वतकोऽवादीदिदं तातेन नोदितम् । उदिताः किं त्वजा मेषास्तथैवोक्ता निघण्टुषु ॥३९॥ जगाद नारदोऽप्येवं शब्दानामर्थकल्पना । मुख्या गौणी च तत्रेह गौणी गुरुरचीकथत् ॥४०॥ गुरुधर्मोपदेष्टैव श्रुतिधर्मात्मिकैव च । द्वयमप्यन्यथाकुर्वन्मित्र मा पापमर्जय ॥४१॥ साक्षेप पर्वतोऽजल्पदजान् मेषान् गुरुजगौ । गुरूपदेशशब्दार्थोल्लङ्घनाद्धर्ममर्जसि ? ॥४२॥ मिथ्याभिमानवाचो हि न स्युदण्डभयान्नृणाम् । स्वपक्षस्थापने तेन जिह्वाच्छेदः पणोऽस्तु नः ॥४३॥ प्रमाणमुभयोरत्र सहाध्यायी वसुनृपः । नारदः प्रतिपेदे तन्न क्षोभः सत्यभाषिणाम् ॥४४॥ रहः पर्वतमूचेऽम्बा गृहकर्मरताप्यहम् । अजास्त्रिवार्षिकं धान्यमित्यौपं भवत्पितुः ॥४५।। जिह्वाच्छेदं पणेऽकार्यद्दत्तिदसाम्प्रतम् । अविमृश्य विधातारो भवन्ति विपदां पदम् ॥४६॥ अवदत पर्वतोऽप्येवं कृतं तावदिदं मया । यथातथाकृतस्याम्ब करणं न हि विद्यते ॥४७॥ साऽथ पर्वतकापायपीडया हृदि शल्यिता। वसुराजमुपेपाय पुत्रार्थे क्रियते न किम् ।।४८|| १ साक्षेपः क. ग. च. छ. ड.॥ २ नारदस्तदुरीचके ख. ॥ Jain Education Inter For Private & Personal Use Only R ow.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy