SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ॥२८॥ प्रियः पर्वतकः पुत्रः पुत्रादप्यधिको वसुः । नरकं यास्यतस्तस्माद् गृहवासेन कि मम ॥२२॥ निर्वेदादित्युपाध्यायः प्रव्रज्यामग्रहीत्तदा । तत्पदं पर्वतोऽध्यास्त व्याख्याक्षणविचक्षणः ॥२३॥ भूत्वा गुरोः प्रसादेन सर्वशाखविशारदः । नारदः शारदाम्भोदशुद्धधीः स्वां भुवं ययौ ॥२४॥ नृपचन्द्रोऽभिचन्द्रोऽपि जग्राह समये व्रतम् । ततश्चासीद्वम् राजा वासुदेवसमः श्रिया ॥२५॥ सत्यवादीति स प्राप प्रसिद्धि पृथिवीतले । तां प्रसिद्धिमपि त्रातुं सत्यमेव जगाद सः ॥२६॥ अथैकदा मृगयुणा मृगाय मृगयाजुषा। चिक्षिपे विशिखो विन्ध्यनितम्बे सोऽन्तराऽस्खलत् ॥२७॥ इषुस्खलनहेतुं स ज्ञातुं तत्र ययौ ततः। आकाशस्फटिकशिलामज्ञासीत् पाणिना स्पृशन् ।।२८॥ स दध्याविति मन्येऽस्यां संक्रान्तः परतवरन् । भूमिच्छायेव शीतांशी ददृशे हरिणो मया ॥२९॥ पाणिस्पर्श विना नेयं सर्वथाऽप्युपलक्ष्यते । अवश्यं तदसौ योग्या वसोर्वसुमतीपतेः ॥३०॥ रहो व्यज्ञपयद्राक्षे गत्वा तां मृगयुः शिलाम् । हृष्टो राजाऽपि जग्राह ददौ चास्मै महद्धनम् ॥३१॥ स तया घटयामास च्छन्नं स्वासनवेदिकाम् । तच्छिल्पिनोऽघातयच्च नात्मीयाः कस्यचिन्नृपाः ॥३२॥ तस्यां सिंहासनं वेदौ चेदीशस्य निवेशितम् । सत्यप्रभावादाकाशस्थितमित्यबुधजनः ॥३३॥ सत्याद्धि तुष्टाः सान्निध्यमस्य कुर्वन्ति देवताः । एवमूर्जस्विनी तस्य प्रसिद्धिानशे दिशः ॥३४॥ तया प्रसिद्धया राजानो मीतास्तस्य वशं ययुः । सत्या वा यदिवा मिथ्या प्रसिद्धिर्जयिनी नृणाम् ॥३५॥ १ -क. ग. छ.। वशं गताः मु.॥ ७२ ॥२८॥ Jain Education Inter For Private & Personal Use Only M w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy