SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाश: श्लोकः ६० /ર૮ી . ॥२८॥ यावपूर्ण समप्येषामेकैकं पिष्टकुक्कुटम् । स ऊचेऽमी तत्र वध्या यत्र कोऽपि न पश्यति ॥९॥ वसु-पर्वतको तत्र गत्वा शून्यप्रदेशयोः । आत्मनीनां गतिमिव जन्नतुः पिष्टकुकुटौ ॥१०॥ महात्मा नारदस्तत्र व्रजित्वा नगराद् बहिः । स्थित्वा च विजने देशे दिशः प्रेक्ष्येत्यतर्कयत् ॥११॥ गुरुपादेरदस्तावदादिष्टं वत्स यच्चया। वध्योऽयं कुक्कुटस्तत्र यत्र कोऽपि न पश्यति ॥१२॥ असौ पश्यत्यहं पश्याम्यमी पश्यन्ति खेचराः। लोकपालाश्च पश्यन्ति पश्यन्ति ज्ञानिनोऽपि च ॥१३॥ नास्त्येव स्थानमपि तद्यत्र कोऽपि न पश्यति । तात्पर्य तद् गुरुगिरां न वध्यः खलु कुक्कुटः ॥१४॥ गुरुपादा दयावन्तः सदा हिंसापराङ्मुखाः । अस्मत्प्रज्ञां परिज्ञातुमेतन्नियतमादिशन् ।।१५।। विमृश्यैवमहत्वैव कुकुटं स समाययौ । कुक्कुटाहनने हेतुं गुरोर्व्यज्ञपयञ्च तम् ॥१६॥ स्वर्ग यास्यत्यसौ तावदिति निश्चित्य सस्वजे । गुरुणा नारदः स्नेहात् साधु साध्विति भाषिणा ॥१७॥ वसु-पर्वतको पश्चादागत्यैवं शशंसतुः । निहतो कुकुटौ तत्र यत्र कोऽपि न पश्यति ॥१८॥ अपश्यतं युवामादावपश्यन् खेचरादयः । कथं हतौ कुकुटौ रे पापावित्यशपद् गुरुः ।।१९।। ततः खेदादपाध्यायो दध्यौ विध्यातपाठधीः । मुधा मेऽध्यापनक्लेशो वसु-पर्वतयोरभूत ॥२०॥ गुरूपदेशो हि यथापात्रं परिणमेदिह । अभ्राम्भः स्थानभेदेन मुक्ता-लवणतां व्रजेत् ।।२१।। १ प्रेक्ष्य व्यतर्क मु.॥ २ गत्यैव खं.॥ Jain Education in For Private & Personal use only Doww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy