SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाश: श्लोकः ६० ॥२८॥ !!२८२॥ दत्तः क्रुद्धोऽभ्यधादेवमिह कः प्रत्ययो वद । आर्योऽप्यूचे श्वकुम्भ्यां त्वं पक्ष्यसे सप्तमेऽहनि ॥१४॥ दत्तः कोपाददस्तभ्रररुणीकृतलोचनः । भ्रताविष्ट इवोवाच प्रत्ययोऽत्रापि को ननु ॥१५॥ अथोचे कालिकार्योऽपि वकुम्भीपचनात् पुरः। तस्मिन्नेवालथकस्मात् ते मुखे विष्ठा प्रवेक्ष्यति ॥१६॥ रोषाद् दत्तो जगादेदं तव मृत्युः कुतः कदा। न कुतोऽपि, स्वकाले द्यां यास्यामीत्यवदन्मुनिः ॥१७॥ अमुं निरुद्ध दुर्बुद्धिमिति दत्तेन शेषतः । आदिष्टैः कालिकाचार्यों रुरुधे दण्डपूरुषैः ॥१८॥ अथ दत्तात् समुद्विग्नाः सामन्ताः पापकर्मणः । आह्वन्नाद्यं नृपं तस्मै दत्तमर्पयितुं किल ॥१९॥ दत्तोऽपि शङ्कितस्तस्थौ निलीनो निजवेश्मनि । कण्ठीरखरखत्रस्तो निकुञ्ज इव कुञ्जरः ॥२०॥ स विस्मृतदिनो दैवादागते सप्तमे दिने । बहिर्निर्गन्तुमार! राजमार्गानरक्षयत् ॥२१॥ तत्रैको मालिकः प्रातर्विशन् पुष्पकरण्डवान् । चक्रे वेगातुरो विष्ठां भीतः पुष्पैः प्यधत्त च ॥२२॥ इहाहनि हनिष्यामि पशुवन्मुनिपांसनम् । चिन्तयन्निति दत्तोऽपि निर्ययौ सादिभिर्वृतः ॥२३॥ एकेन वल्गताऽश्वेन विष्ठोक्षिप्ता खुरेण सा । दत्तस्य प्राविशच्चास्ये नासत्या यतिनां गिरः ॥२४॥ शिलास्फालितवत् सद्यः श्लथाङ्गो विमनास्ततः। स सामन्ताननापृच्छय ववले स्वगृहं प्रति ॥२५॥ नाऽस्मन्मन्त्रोऽमुना ज्ञात इति प्रकृतिपूरुपैः। गृहमप्रविशन्नेव बवा दः स गौरिख ॥२६॥ १ तथैको खं ॥ २ -क ख. ग. छ. । यमिना मु.॥ For Private & Personal Use Only Jain Education Inter Ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy