________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
||२८०||
Jain Education Inte
असत्यवचनाद्वैर-विषादा- ऽप्रत्ययादयः ।
प्रादुःषन्ति न के दोषाः कुपथ्याद् व्याधयो यथा ॥ ५८|| वैरं विरोधः, विषादः पश्चात्तापः, अप्रत्ययोऽविश्वासः । आदिग्रहणाद् राजावमानादयो गृह्यन्ते ||१८|| आमुष्मिकं मृषावादस्य फलमाह -
निगोदेष्वथ तिर्यक्षु तथा नरकवासिषु ।
उत्पद्यन्ते मृषावादप्रसादेन शरीरिणः ॥ ५९ ॥
निगोदा अनन्तकायिका जीवास्तेषु, तिर्यक्षु गोबलीवर्दन्यायेन शेषतिर्यग्योनिषु, नरकवासिषु नैरयिकेषु ||५९॥ इदानीं मृषावादपरिहारे अन्वयव्यतिरेकाभ्यां कालिकाचार्य - वसुराजौ दृष्टान्तावाह -
ब्रूयाद् भियोपरोधाद्वा नासत्यं कालिकार्यवत् ।
यस्तु ब्रूते स नरकं प्रयाति वसुराजवत् ||६०||
भिया मरणादिभयेन, उपरोधाद्दाक्षिण्यादसत्यं न ब्रूयात् । यस्तु ब्रूते 'भियोपरोधाद्वा' इत्यत्रापि संबन्ध - नीयम् । दृष्टान्तौ संप्रदायगम्यौ । स चायम् -
अस्ति भूरमणीमौलिमणिस्तुरमणी पुरी । यथार्थनामा तत्रासी जितशत्रुर्महीपतिः || १ ||
१ नाशेष - शां. खं. ॥
For Private & Personal Use Only
द्वितीय:
प्रकाशः
श्लोकः ६०
॥२८० ॥
5
10
www.jainelibrary.org