SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ॥२७९॥ अइअम्मि अ कालम्मि पञ्चप्पण्णमणागए। जत्थ संका भवे तं तु एवमेअंति णो वए ।२।। अहअम्मि अ कालम्मि पच्चुप्पन्नमणागए । निस्संकिअं भवे जं तु एवमेअं तु निदिसे ॥३॥" [ दशवै० ७।८, ९, १० ] एतच्चासत्यं चतुर्दा-भूतनिहवोऽभूतोद्भावनमर्थान्तरं गर्दा च।। भूतनिह्नवो यथा-नास्त्यात्मा, नास्ति पुण्यं, नास्ति पापं चेत्यादि । अभूतोद्भावनं यथा-सर्वगत आत्मा श्यामाकतन्दुलमात्रो वा । अर्थान्तरं यथा-गामश्वमभिदधतः । गर्दा तु त्रिधा, एका सावधव्यापारप्रवर्तनी, यथा क्षेत्रं कृपेत्यादि । द्वितीया अप्रिया काणं काणमिति वदतः । तृतीयाआक्रोशरूपा, यथा अरे बान्धकिनेय इत्यादि ।।५७।। अतिपरिहरणीयत्वमसत्यवचनस्य दर्शयन् पुनरप्यहिकान् दोषानाहअतीते च काले प्रत्युत्पन्नेऽनागतार्थ यत्राथै शङ्का भवेदिति तमप्यर्थमाश्रित्य 'एवमेतत्' इति न यादिति सूत्रार्थः । अयमपि विशेषतः शङ्कितभाषणप्रतिषेधः ॥ तथा अइयंमि त्ति सूत्रम् । अतीते च काले प्रत्युत्पन्नेऽनागते निःशङ्कितं भवेत् यदर्थजातं, तुशब्दादनषद्यम् , तद् एवमेतत्' इति निर्दिशेत् । अन्ये पठन्ति 'स्तोकस्तोकम्' इति, तत्र परि. मितया वाचा निर्दिशेदिति सूत्रार्थः॥" इति दशवकालिकसूत्रस्य हारिभद्र्यां वृत्तौ पृ० २१४-२१५ ।। १ एवमेवं- शां. । थेवथेवं- खं.॥ २ तंडुल खं.॥ ३ दर्शयन् दोषानाह शां. ॥ ॥२७९॥ Jain Education in pol For Private & Personal Use Only |www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy