________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥२७८॥
Jain Education Int
असत्यस्य फलविशेषमुपदर्शयंस्तत्परिहारमुपदिशति—
असत्यतो लघीयस्त्वमसत्याद्वचनीयता । अधोगतिरसत्याच्च तदसत्यं परित्यजेत् ॥ ५६ ॥ लघीयस्त्वं वचनीयता चासत्यस्यैहिकं फलम्, अधोगतिरामुष्मिकम् ॥ ५६ ॥ अथ भवतु क्लिष्टाशयपूर्वस्यासत्यस्य निषेधः, प्रामादिकस्य तु का वार्तेत्याहअसत्यवचनं प्राज्ञः प्रमादेनापि नो वदेत् ।
श्रेयांसि येन भज्यन्ते वात्ययेव महाद्रुमाः || ५७॥
tai क्लिष्टाशयपूर्वकमसत्यवचनम्, प्रामादिकमप्यज्ञान- संशयादिजनितवचनं न वदेत् येन प्रामादिकेनासत्यवचनेन श्रेयांसि भङ्गमुपयान्ति वात्ययेव महाद्रुमा इति दृष्टान्तः । यदाहुर्महर्षयः -
64
'अइअम्मि अ कालम्मि पच्चुप्पन्नमणागए। जमङ्कं तु न जाणेज्जा एवमेअं ति णो वए ॥ १ ॥
१ दशवैकालिकादुद्धृता स्विमासु तिसृष्वपि गाथासु 'कालम्मि' इत्यस्य स्थाने 'अट्टम्मी' इति पाठ: शां. ख. प्रत्योर्दृश्यते, क. ख. ग. छ. ड. प्रतिषु तु 'अद्धम्मि' इति पाठः । आसां तिसृणां गाथानां हरिभद्रसूरिविरचितं व्याख्यानमेवं दृश्यते - " अईयंमि त्ति सूत्रम् । अतीते च काले तथा प्रत्युत्पन्ने वर्तमानेऽनागते च यमर्थं न तु जानीयात् सम्यगेव - मयमिति, तमङ्गीकृत्य एवमेतदिति न ब्रूयादिति सूत्रार्थः । अयमज्ञातभाषणप्रतिषेधः ॥ तथा अईयम्मित्ति सूत्रम् ।
For Private & Personal Use Only
द्वितीय:
प्रकाश:
श्लोकः ५७ ॥२७८॥
10
www.jainelibrary.org