________________
॥२७७॥
लीकस्योपलक्षणम् । भूम्यलीकं परसत्कामप्यात्मादिसत्कां विपर्ययं वा वदतः, इदं च शेषपादपाद्यपदद्रव्यविषयालीकस्योपलक्षणम् ।
अथ द्विपद-चतुष्पदा-ऽपदग्रहणमेव कस्पान्न कृतम् ? उच्यते-कन्याद्यलीकानां लोकेऽतिगर्हितत्वेन रूढत्वादिति ।
न्यस्यते रक्षणायान्यस्मै समर्प्यत इति न्यासः सुवर्णादिः, तस्यापहरणमपलापः, तद्वचनं स्थूलमृषावादः, इदं चानेनैव विशेषेण पूर्वालीकेभ्यो भेदेनोपात्तम् । कूटसाक्ष्यं प्रमाणीकृतस्य लञ्चा-मत्सरादिना कूटं वदतः ' यथाहमत्र साक्षी.' अस्य च परकीयपापसमर्थकत्वलक्षणविशेषमाश्रित्य पूर्वेभ्यो भेदेनोपन्यासः। एतानि क्लिष्टाशयसमुत्थत्वात स्थूलासत्यानि ॥ ५४ ॥ एतेषां स्थूलालीकत्वे विशेषणद्वारेण हेतुमुपन्यस्य प्रतिषेधमाह
सर्वलोकविरुद्धं यद्यद्विश्वसितघातकम् ।
यद्विपक्षश्च पुण्यस्य न वदेत्तदसूनृतम् ॥५५॥ सर्वलोकविरुद्धत्वात् कन्यागोभूम्यलीकानि न वदेत् । विश्वसितघातकत्वान्यासापलापं न वदेत् । पुण्यस्य धर्मस्य विपक्षरूपोऽधर्मः, तं हि वदन् प्रमाणीकृतो विवादिभिरम्यर्थ्यते 'धर्म ब्रूया नाधर्मम् ' इति, इति धर्मविपक्षत्वात् कूटसाक्ष्यं न वदेत् ।। ५५ ॥ १ सुवर्णादि खं ॥ २ वदेन पुण्यस्य खं.॥ ३ सूनृतं हि (१)॥ 'भ्यर्थिते खं.॥ ५ धर्म बयानाधर्मम्- खं. विना ॥
॥२७७॥
७०
Jain Education Inter
For Private & Personal use only
Blw.jainelibrary.org