________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
द्वितीयः प्रकाश: श्लोक:५४ ॥२७६॥
॥२७६।।
मन एव मन्त यत्र तद् मन्मनं परस्याप्रतिपादकं वचनम् , तद्योगात् पुरुषोऽपि मन्मनः, तस्य भावो मन्मनत्वम् , . १। काहलमव्यक्तवर्ण वचनम् , तद्योगात् पुरुषोऽपि काहलः, तस्य भावः काहलत्वम् २। मूकोऽवाक्, तस्य भावो मूकत्वम् ३ । मुखस्य रोगा उपजिह्वादयः, तेऽस्य सन्ति मुखरोगी, तस्य भावो मुखरोगिता ४ । एतत् सर्वमसत्यफलं वीक्ष्य शास्त्रबलेनोपलभ्यासत्यं स्थलासत्यमुत्सृजेच्छावकः । यदाह
" मूका जडाश्च विकला वागहीना वागजुगुप्सिताः।
पूतिगन्धमुखाश्चैव जायन्तेऽनृतभाषिणः ॥" [ ] ___ असत्यं च कन्यालीकादि वक्ष्यमाणम् ॥५३॥ तदेवाह
कन्या-गो-भूम्यलीकानि न्यासापहरणं तथा ।
कूटसाक्ष्यं च पञ्चेति स्थूलासत्यान्यकीर्तयन् ॥५४॥ १ कन्यालीकं, २ गवालीकं, ३ भूम्यलीकं, ४ न्यासापहरणं, ५ कूटसाक्ष्यं च । एतानि पश्च स्थूलासत्यान्यकीर्तयन् जिनाः।
तत्र कन्याविषयमलीकं कन्यालीकं भिन्नकन्यामभिन्ना विपर्ययं वा वदतो भवति; इदं च सर्वस्य कुमारादिद्विपदविषयस्यालीकस्योपलक्षणम् । गवालीकमलपक्षीरां बहुक्षीरां विपर्ययं वा वदतः, इदमपि सर्वचतुष्पदविषयस्या
१ असत्यं च ॥ तच वक्ष्यमाणम्- खं. ॥ २ वा नास्ति खं. ॥
Jain Education Inte
For Private & Personal Use Only
ww.jainelibrary.org