SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ||२७५।। अहिंसापरो हि परेषामायुर्वर्द्धयन्ननुरूपमेव जन्मान्तरे दीर्घायुष्ट्वं लभते । तथैव पररूपमविनाशयन् प्रकृष्टं रूपमामोति । तथैव चास्वास्थ्यहेतुं हिंसां परिहरन् परमस्वास्थ्यरूपमारोग्यं लभते । सर्वभूताभयप्रदश्च तेभ्यः आत्मनः श्लाघनीयतामश्नुते । एतत् सर्वमहिंसायाः फलम् , कियद्वा शृङ्गग्राहिकया वक्तुं शक्यते इत्याह-किमन्यत् कामदैव सा, यद्यत् कामयते तत्तस्मै ददाति । उपलक्षणमेतत् , अकामितस्यापि स्वर्गापवर्गादेः फलस्य दानात् । अत्रान्तरे श्लोक :___हेमाद्रिः पर्वतानां हरिरमृतभुजां चक्रवर्ती नराणां, शीतांशुोतिषां स्वस्तरुरवनिरुहां चण्डरोचिहाणाम् । सिन्धुस्तोयाशयानां जिनपतिरसुरा-ऽमर्त्य-माधिपानां यद्वत् तद्वद् व्रतानामधिपतिपदवीं यात्यहिंसा किमन्यत् ।।१।५२।। उक्तमहिंसाव्रतम् । अथ सूनृतव्रतस्यावसरः, तच्च नालीकविरतिमन्तरेणोपपद्यते, न च तत्फलमनुपदर्यालीकाद्विरति कारयितुं शक्यः पर इत्यलीकफलमुपदी तद्विरतिमुपदर्शयति मन्मनत्वं काहलत्वं मूकत्वं मुखरोगिताम् । वीक्ष्यासत्यफलं कन्यालीकाद्यसत्यमुत्सृजेत् ॥५३॥ १ "न्तरश्लोकाः खं. ॥ २ विरतिव्रतमन्तरेणो मु.॥ ३ "मुपदर्शयति खं ।। ॥२७॥ Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy