________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
!!२७४ ।।
Jain Education Inte
1
हिंसकत्वे विशेषणद्वारेण हेतुमाह — कोदण्ड- दण्ड- चक्राऽसि शूल- शक्तिधरा इति । कोदण्डादिधरत्वाद्धिंसकाः, हिंसकत्वमन्तरेण कोदण्डादीनां धारयितुमयुक्तत्वात् । कोदण्डधरः शङ्करः, दण्डधरो यमः, चक्राऽसि विष्णुः शूलधरौ शिव, शक्तिधरः कुमारः, उपलक्षणमन्येषां शस्त्राणां शस्त्रधराणां च ॥ ४९ ॥
एवं प्रपञ्चतो हिंसा प्रतिषिध्य तद्विपक्षभूतमहिंसाव्रतं लोकद्वयेन स्तौति — मातेव सर्वभूतानामहिंसा हितकारिणी । अहिंसैव हि संसारमरावमृतसारणिः ||५०|| अहिंसा दुःखदावाग्निप्रावृषेण्यघनावली । भवभ्रमरुगार्त्तानामहिंसा परमौषधी || ५१ ||
स्पष्टम् ।। ५० ।। ५१ ।।
अहिंसाव्रतस्य फलमाह -
१ सारिणिः खं.
दीर्घमायुः परं रूपमारोग्यं श्लाघनीयता । अहिंसायाः फलं सर्वं किमन्यत् कामदेव सा ||५२ ||
For Private & Personal Use Only
कळल
द्वितीय: प्रकाशः
श्लोक ५२
।।२७४।।
5
10
www.jainelibrary.org