________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
द्वितीय:
प्रकाश: श्लोक: ४२ ॥२७॥
॥२७॥
___ शमः कषायेन्द्रियजयः, शीलं सुस्वभावता, दया भूतानुकम्पा, एतानि मूलं कारणं यस्य स तथा, धर्मोऽभ्युदय-निःश्रेयसकारणम् , तम् , किंविशिष्टम् ? जगद्धितम् , हित्वा उपेक्ष्य, शम-शीलादीनि धर्मसाधनान्युपेक्ष्येत्यर्थः, अहो इति विस्मये, हिंसाऽपि धर्मसाधनबहिर्भूता धर्माय धर्मसाधनत्वेन मन्दबुद्धिमिरुक्ता, सर्वजनप्रसिद्धानि शमशीलादीनि धर्मसाधनान्युपेक्ष्य अधर्मसाधनमपि हिंसां धर्मसाधनत्वेन प्रतिपादयतां परेषां व्यक्तैव मन्दबुद्धिता ॥४०॥
एवं तावल्लोभमूला शान्त्यर्था कुलक्रमायाता यज्ञनिमित्ता देवोपहारहेतुका च हिंसा प्रतिषिद्धा । पितृनिमित्ता अवशिष्यते, तां प्रतिषेधितुं परशास्त्रीयां षट्श्लोकीमनुवदति
" हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते ।
पितृभ्यो विधिवद्दत्तं तत् प्रवक्ष्याम्यशेषतः ॥४१॥ चिररात्रशब्दो दीर्घकालवचनः, यच्चानन्त्याय, केनचिद्धविषा दीर्घकाला तृप्तिर्जायते केनचिदनन्तैव, तदुभयं प्रवक्ष्यामि ॥४१॥
तिलैीहि-यवैरिद्भिर्मूल-फलेन वा ।
दत्तेन मासं प्रीयन्ते विधिवत् पितरो नृणाम् ॥४२॥ तिलादिग्रहणं नेतरपरिसंख्यानार्थमपि तूपात्तानां फलविशेषप्रदर्शनार्थम् । एतविधिवदत्तैः पितरो मासं प्रीयन्ते ॥४२॥ १ फले खं. ॥
Jain Education in
For Private & Personal Use Only
|www.jainelibrary.org