________________
॥२६९||
यत्तक्तम् ‘आत्मानं च पशंश्चैव गमयत्युत्तमा गतिम् ' इति तदतिमहासाहसिकादन्यः को वक्तुमर्हति ? । अपि नाम पशोरहिंस्रस्याऽकामनिर्जस्योत्तमगतिलाभः संभवेत् , द्विजस्य तु निशातकपाणिकाप्रहारपूर्व सौनिकस्येव निर्दयस्य हिसतः कथमुत्तमगतिसंभावनाऽपि स्यात् ? ॥ ३८ ॥ एतदेव विशेषाभिधानपूर्वकमुपसंहरबाह
देवोपहारव्याजेन यज्ञव्याजेन येऽथवा ।
नन्ति जन्तून् गतघृणा घोरां ते यान्ति दुर्गतिम् ॥३९॥ देवा भैरव-चण्डिकादयः, तेभ्य उपहारो बलिः, स एव व्याज छन, तेन, महानवमी-माघाष्टमी-चैत्राष्टमीनमसितकादिषु देवपूजाच्छद्मना ये जन्तुघातं कुर्वन्ति ये च यज्ञव्याजेन गतघृणा निर्दयास्ते घोरां रौद्रां दुर्गति नरकादिलक्षणां यान्ति । अत्र देवोपहारव्याजेनेति विशेषाभिधानम् , यज्ञव्याजेनेत्युपसंहारः। अपि च निराबाधे धर्मसाधने स्वाधीने साबाधपराधीनधर्मसाधनपरिग्रहो न श्रेयान । यदाहः
'अर्के चेन्मधु विन्देत किमर्थ पर्वतं व्रजेत् ' [ ] इति ॥३९॥ एतदेवाह
शम-शोल-दयामूलं हित्वा धर्म जगद्धितम् । अहो हिंसाऽपि धर्माय जगदे मन्दबुद्धिभिः ॥४॥
॥२६९॥
५८
Jain Education Inter
For Private & Personal use only
jainelibrary.org