________________
॥२६७||
एष्वर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद् द्विजः ।
आत्मानं च पशृंश्चैव गमयत्युत्तमां गतिम् ॥३६॥" [मनुस्मृ० ५। ३९-४२ ] एतानर्थान् साधयितुं पशून हिंसन् द्विज आत्मानं पशुंश्चोत्तमा गति स्वर्गा-ऽपवर्गलक्षणां गमयति प्रापयति, वेदतत्वार्थविदिति विदषोऽधिकारित्वमाह ॥३६॥ हिंसाशासमन्ध पुनस्तदुपदेशकानाक्षिपति
ये चक्रुः क्रूरकर्माणः शास्त्रं हिंसोपदेशकम् ।
क्व ते यास्यन्ति नरके नास्तिकेभ्योऽपि नास्तिकाः ॥३७॥ ये मन्वादयः क्रूरं निघृणं कर्म येषां ते क्रूरकर्माणः शास्त्रं स्मृत्यादि हिंसाया उपदेशकं चक्रुः ते हिंसाशास्त्रकर्तारः क्व नरके यास्यन्तीति विस्मयः । ते चास्तिकामासा अपि नास्तिकेम्योऽपि नास्तिकाः परमनास्तिका इत्यर्थः ॥३७॥ उक्तं चेत्यनेन संवादश्लोकमुपदर्शयति
"वरं वराकश्चार्वाको योऽसौ प्रकटनास्तिकः । वेदोक्तितापसच्छद्मच्छन्नं रक्षो न जैमिनिः ॥३८॥" [ ]
॥२६७॥
For Private & Personal Use Only
Jain Education in
www.jainelibrary.org