________________
||२६५||
Jain Education Inten
509:0209992000
2020202
हिंसाशास्त्रं वक्ष्यमाणम्, तस्योपदेशका हिंसाशास्त्रोपदेशका मन्वादयः तैः किविशिष्टैः ? नृशंसे निर्दयैः । दयावान् हि कथं हिंसाशास्त्रमुपदिशेत् । नृशंसत्वे हेतुमाह - लोभान्धैः मांसलोभादन्धैः स्वाभाविकविवेक-विवेकिसंसर्गचक्षूरहितैः । यदाह —
एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् ।
एतद्द्वयं भुवि न यस्य स ततोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः १ ॥१॥
अहो इति निर्वेदे यतो विश्वस्तो विस्रब्धः, विश्वस्तत्वे हेतुर्मुग्धधीः । चतुबुद्धिर्हि कृत्याकृत्यं विवेचयन् न प्रतारकवचस्तु विश्वसिति । लोकः प्राकृतो जनः पात्यते क्षेप्यते नरकावनौ नरकपृथ्व्याम् ||३२||
हिंसाशास्त्रमेव यदाहुरित्यनेन प्रस्तुत्य निर्दिशति —
66
' यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा ।
यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ||३३||
यज्ञार्थं यज्ञनिमित्तं स्वयंभुवा प्रजापतिना पशवः सृष्टा उत्पादिताः स्वयमेवेत्यर्थवादः । अस्य जगतो विश्वस्य यज्ञो ज्योतिष्टोमादिः भृत्यै, भूतिर्विभवः, तस्मात्तत्र यो वधः स न वधो विज्ञेयः, हिंसाजन्यस्य पापस्यानुत्पत्तेरेवमुच्यते । कथं पुनर्यज्ञे हिंसादोषो नास्ति ? उच्यते-हिंसा हिंस्यमानस्य महानवकारः, प्राणवियोगेन पुत्र- दार- धनादिवियो १ स्तस्यापि मार्गचलने शां. खं. ॥ २ विश्रब्धः - शां. मु. ॥
१७
For Private & Personal Use Only
10
||२६५ ।।
www.jainelibrary.org