SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ||२६४|| Jain Education 2000200000 स्वाननादृत्य सुलसो गृहीतद्वादशव्रतः । दौर्गत्यभीतोऽस्थाज्जैनधर्मे रोर इवेश्वरे ॥ १४६ ॥ कालसरिकनुरिवैवं यस्त्यजेत् कुलभवामपि हिंसाम् । स्वर्गसम्पददवयसि तस्य श्रेयसामविषयो न हि किञ्चित् ॥ १४७ ॥ ३० ॥ अथ हिंसां कुर्वन्नपि दमादिभिः पुण्यमर्जयत्येव पापं च विशोधयेदित्याहदम देव - गुरूपास्तिर्दानमध्ययनं तपः । सर्वमप्येतदफलं हिंसां चेन्न परित्यजेत् ॥३१॥ दम इन्द्रियजयः, देव-गुरूपास्तिर्देवसेवा गुरुसेवा च दानं पात्रेषु द्रव्यविश्राणनम्, अध्ययनं धर्मशास्त्रादेः पठनम्, तपः कृच्छ्र- चान्द्रायणादि । एतद्दमादि सर्वमपि न तु किञ्चिदेव, अफलं पुण्यार्जन पापक्षयादिफलरहितम्, चेद्यदि हिंसां शान्तिहेतुं कुलक्रमायातां वा न परित्यजेन परिहरेत् । एवं तावन्मांसलुब्धानां शान्तिकार्थिनां कुलाचारमनुपालयतां च या हिंसा सा प्रतिषिद्धा ||३१|| इदानीं शास्त्रीयां हिंसां प्रतिषेधन् शास्तृनेवाऽऽक्षिपति विश्वस्तो मुग्धधीर्लोकः पात्यते नरकावनौ । अहो नृशंसेलभान्धेहिंसाशास्त्रोपदेशकैः ॥ ३२ ॥ For Private & Personal Use Only द्वितीय: प्रकाश: श्लोक ३२ ॥२६४॥ 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy