________________
॥२६३॥
अथ ते स्वजनाः प्रोचुः पापं प्राणिवधेन यत् । तद्विभज्य ग्रहीष्यामो हिरण्यमिव गोत्रिणः ॥१३३॥ त्वमेकं महिषं हन्या हनिष्यामोऽपरान् वयम् । अत्यल्पमेव ते पापं भविष्यति ततो ननु ॥१३४॥ आदाय सुलसः पित्र्यं कुठारं पाणिना ततः । तेनाऽऽजघ्ने निजां जवां मर्छितो निपपात च ॥१३५।। लब्धसंज्ञस्ततोऽवादीत् साक्रन्दः करुणस्वरम् । हा ! कुठारप्रहारेण कठोरेणारिम पीडितः ॥१३६॥ गृहणीत बन्धवो यूयं विभज्य मम वेदनाम् । स्यामल्पवेदनो येन, पीडितं पात पात माम् ॥१३७॥ सुलस खिन्नमनसस्ते च प्रतिबभाषिरे। पीडा कस्यापि केनापि ग्रहीतुं शक्यते किमु ॥१३८॥ सुलसो व्याजहारेदं यद् व्यथामियतीमपि । न मे ग्रहीतुमीशिध्वे, तत् कथं नरकव्यथाम् ॥१३९॥ कृत्वा पापं कुटुम्बार्थे घोरां नरकवेदनाम् । एकोऽमुत्र सहिष्येऽहं, स्थास्यन्त्यत्रैव बान्धवाः ॥१४॥ हिंसा तन्न करिष्यामि पैतृकीमपि सर्वथा । पिता भवति यद्यन्ध: किमन्धः स्यात् सुतोऽपि हि ॥१४॥ एवं व्याहरमाणस्य सुलसस्यातिपीडया। प्रतिजागरणायाऽऽगादभयः श्रेणिकात्मजः॥१४२॥ परिरभ्य बभाषे तमभयः साधु साधु भोः । सर्व ते श्रुतमस्माभिः, प्रमोदाद्वयमागताः ॥१४३।। पापात् पित्र्यादपक्रामन् कर्दमादिव दूरतः । त्वमेकः श्लाध्यसे इन्त पक्षपातो गुणेषु नः ॥१४४॥ सुलसं पेशलैरेवमालापैधर्मवत्सलः । अनुमोद्य निजं धाम जगाम स नृपात्मजः ॥१४५।। १ साक्रन्दकरु खं. । स क्रन्दन् कर ड । स क्रन्दन दारु च ॥ २ पैत्रिकी खं, मु.॥ ३ पैच्या शां. मु.॥ ४ धाम स जगाम मु.॥
॥२६॥
Jain Education Inter
For Private & Personal Use Only
lwww.jainelibrary.org