________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
!!१२६२||
Jain Education In
rastra यच्चक्रे तस्येदृशं फलम् । सत्यमत्युग्रपापानां फलमत्रैव लभ्यते ॥ १२० ॥ तथाऽप्यस्य कुरु प्रीत्यै विपरीतेन्द्रियार्थताम् | अमेध्यगन्धविध्वंसे भवेन्नृ जलमौषधम् ॥१२१॥ अथैत्य सुसस्तं तु कटुतिक्तान्यभोजयत् । अपाययदपोऽत्युष्णास्तत्र पुसहोदराः ॥ १२२ ॥ भूयिष्ठविष्ठया सुष्ठु सर्वाङ्गीणं व्यलेपयत् । ऊर्वकष्टकमय्यां च शय्यायां पर्यषुपत् ॥ १२३॥ श्रावयामास चक्रीवत्-क्रमेलकरवान् कटून् । रक्षो- वेताल- कङ्कालघोररूपाण्यदर्शयत् ॥१२४|| तैः प्रीतः सोऽब्रवीत् पुत्रं चिरात् स्वाद्वद्य भोजनम् । शीतं वारि मृदुः शय्या सुगन्धि च विलेपनम् ॥ १२५ ॥ शब्दः श्रुतिसुधानि रूपाण्येकं सुखं दृशोः । भक्तेनापि त्वयाऽस्मात् किं वञ्चितोऽस्मि चिरं सुखात् ॥ १२६ ॥ तच्छ्रुत्वा सुलसो दध्याविदमत्रैव जन्मनि । अहो पापफलं घोरं नरके किं भविष्यति ||१२७|| सुलसे चिन्तयत्येवं समृत्वा प्राप दारुणम् । सप्तमे नरके स्थानमप्रतिष्ठानसंज्ञितम् ॥ १२८ ॥
कृतौ दुर्वदेहिको भाणि सुलसः स्वजनैरिति । पितुः श्रय पदं स्याम सनाथा हि त्वया यथा ॥ १२९ ॥ सुलसस्तानुवाचेदं करिष्ये कर्म न ह्यदः । किञ्चिल्लेभे फलं पित्राप्यत्रैवाऽमुष्य कर्मणः ॥ १३० ॥ यथा मम प्रियाः प्राणास्तथाऽन्यप्राणिनामपि । स्वप्राणिताय धिगहो परप्राणप्रमारणम् ॥१३१॥ हिंसाजी विकया जीवेत् कः प्रेक्ष्य फलमीदृशम् । मरणैकफलं ज्ञात्वा किपाककलमत्ति कः ॥ १३२ ॥ १ भवेन्न जल मु. । नृजलं मूत्रम् ॥ ३ कृतो प्रतिषु ॥
२ कटुत्यक्का शां. खं. ॥
४ प्रमापणम् शां. ॥
For Private & Personal Use Only
द्वितीय:
प्रकाश:
श्लोक ३० ||२६२||
5
10
www.jainelibrary.org