SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ॥२६॥ ककककककककककककककककककककककककककका राजा ययाचे कपिलां साधुभ्यः श्रद्धयाऽन्विता । भिक्षा प्रयच्छ निर्भिक्षां त्वां करिष्ये धनोच्चयः ॥१०७।। कपिलोचे विधत्से मां सर्वा' स्वर्णमयों यदि। हिनस्सि वा तथाप्येतदकृत्यं न कगेम्यहम् ॥१०८॥ कालसौकरिकोऽप्यूचे राज्ञा सूनां विमुश्च यत् । दास्येऽहमर्थमर्थस्य लोभात् त्वमसि सौनिकः ॥१०९॥ सूनायां ननु को दोषो यया जीवन्ति मानवाः । तां न जातु त्यजामीति कालसौकरिकोऽवदत् ॥११०॥ सूनाव्यापारमेषोत्र करिष्यति कथं न्विति । नृपः क्षिप्त्वाऽन्धकूपे तमहोरात्रमधास्यत् ॥११॥ अथ विज्ञपयामास गत्वा भगवते नृपः । सोऽत्याजि सौनिकः सूनामहोरात्रमिदं विभो ॥११२॥ सर्वज्ञोऽभिदधे राजन्नन्धकूपेऽपि सोऽवधीत् । शतानि पञ्च महिषान् स्वयं निर्माय मृण्मयान् ॥११३।। तद् गत्वा श्रेणिकोऽपश्यत् स्वयमुद्विविजे ततः। धिगहो मे पुरा कर्म, नान्यथा भगवगिरः ॥११४॥ पश्च पश्च शतान्यस्य महिषानिघ्नतोऽन्वहम् । कालसौकरिकस्योचैः पापराशिरवर्द्धत ॥११५॥ इहापि रोगास्तस्याऽऽसन् दारुणैरतिदारुणाः। पर्यन्तनरकप्राप्तेरुपर्युत्कलितैरथैः ॥११६॥ हा तात हा मातरिति व्याधिवाधाकदर्थितः। वध्यमानसूकरवत् कालसौकरिकोऽरटत् ॥११७॥ सोऽङ्गना-तूलिका-पुष्प-चीणा-क्वणित-मार्जिताः। दृष्टि-त्वग-नासिका-कर्ण-जिह्वाशूलान्यमन्यत ॥११८॥ ततस्तस्य सुतस्तादृक् स्वरूपं सुलसोऽखिलम् । जगाद जगदाप्तायाऽभयायाऽभयदायिने ॥११९।। १ चकैः मु.॥ २ मृन्मयान-प्रतिषु ॥ ३ मानः शूकरवत् मु.॥ ४ मार्जिता सुगन्धिद्रव्यैः संस्कृतं दधि ।। ॥२६१॥ Jain Education Intel For Private & Personal Use Only Ivww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy