SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् !!२६० ॥ Jain Education Inter araatavara aai विमोचयसि वा यदि । तदा ते नरकान्मोक्षो राजन् जायेत नान्यथा ॥ ९४ || सम्यगित्युपदेशं स हृदि हारमिवोद्वहन् । प्रणम्य श्रीमहावीरं चचाल स्वाश्रयं प्रति ॥९५॥ अत्रान्तरे परीक्षार्थं दर्दुराङ्केन भूपतेः । अकार्यं विदधत् साधुः कैवर्त्त इव दर्शितः ॥ ९६ ॥ तं दृष्ट्वा प्रवचनस्य मालिन्यं मा भवत्विति । निवार्याकार्य्यतः साम्ना स्वगृहं प्रत्यगान्नृपः ॥ ९७|| स देवो दर्शयामास साध्वीमुदरिणीं पुनः । नृपः शासनभक्तस्तां जुगोप निजवेश्मनि ॥ ९८ ॥ प्रत्यक्षीभूय देवोऽपि तमूचे साधु साधु भोः । सम्यक्त्वाच्चाल्यसे नैव पर्वतः स्वपदादिव || ९९|| नृनाथ यादृशं शक्रः सदसि त्वामचीकथत् । दृष्टस्तादृश एवासि मिथ्यावाचो न तादृशाः ॥ १०० ॥ दिवानिर्मितनक्षत्रश्रेणिकं श्रेणिकाय सः । व्यश्राणयत् ततो द्वारं गोलकद्वितयं तथा ॥ १०१ ॥ योऽमुं सन्ध्यास्यते हारं त्रुटितं स मरिष्यति । इत्युदीर्य्य तिरोऽधत स्वमदृष्ट इवामरः || १०२ || दिव्यं देव्यै ददौ हारं चेल्लणायै मनोहरम् । गोलकद्वितयं तत्तु नन्दायै नृपतिर्मुदा ॥ १०३ ॥ दानस्याऽस्याऽस्मि योग्येति सेष्यं नन्दा मनस्विनी । आस्फाल्य स्फोटयामास स्तम्भे तद् गोलकद्वयम् ॥ १०४|| एकस्मात् कुण्डलद्वन्द्वं चन्द्रद्वन्द्वमिवामलम् । देदीप्यमानमन्यस्मात् क्षौमयुग्मं च निःसृतम् ॥१०५॥ तानि दिव्यानि रत्नानि नन्दा सानन्दमग्रहीत् । अनभ्रवृष्टिवल्लामो महतां स्यादचिन्तितः ||१०६ ॥ १ श्रेणिकं च सः च ॥ २ सेय शां. ॥ For Private & Personal Use Only द्वितीय: प्रकाश: श्लोक ३० ॥२६०॥ 5 10 ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy