SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ॥२५९।। Jain Education Inter £320000 इन्द्रः सदस्युवाचेदमुपश्रेणिकमार्हताः । अश्रद्दधानस्तदसौ त्वत्परीक्षार्थमागतः ॥ ८१ ॥ गोशीर्षचन्दनेनायमानचे चरणौ मम । त्रद्दृष्टिमोहनायाऽन्यत् सर्वं व्यधित वैक्रियम् ||८२|| I अथोचे श्रेणिकः स्वामिन्नमङ्गल्यं प्रभोः क्षुते । एषोऽन्येषां तु मङ्गल्या मङ्गल्यानि जगाद किम् ||८३ || अथाचचक्षे भगवान् किं भवेऽद्यापि तिष्ठसि । शीघ्रं मोक्षं प्रयाहीति मां म्रियस्वेत्युवाच सः ||८४ || सत्वां जगाद जीवति जीवतस्ते यतः सुखम् । नरके नरशार्दूल मृतस्य हि गतिस्तव ||८५ || जीवन् धर्मं विधत्ते स्याद्विमानेऽनुत्तरे मृतः । जीव म्रियस्व वेत्येवं तेनाऽभयमभाषत ॥ ८६ ॥ जीवन पापपरो मृत्वा सप्तमं नरकं व्रजेत् । कालसौकरिकस्तेन प्रोचे मा जीव मा मृथाः || ८७|| तच्छ्रुत्वा श्रेणिक नत्वा भगवन्तं व्यजिज्ञपत् । त्वयि नाथे जगन्नाथ कथं मे नरके गतिः ॥८८॥ भाषे भगवानेवं पुरात्वमसि भूपते । बद्धायुर्नरके तेन तत्रावश्यं गमिष्यसि ॥ ८९ ॥ शुभानामशुभानां वा फलं प्राग्वद्धकर्मणाम् । भोक्तव्यं तद् वयमपि नान्यथा कर्तुमीश्महे ॥ ९० ॥ आद्य भाविजिनचतुर्विंशतौ त्वं भविष्यसि । पद्मनाभाभिधो राजन् खेदं मा स्म कृथास्ततः ॥ ९१ ॥ श्रेणिsasuraane किमुपायोस्ति कोऽपि सः । नरकाद् येन रक्ष्येऽहमन्धकूपादिवान्धलः ||१२|| भगवान् व्याजहारेदं साधुभ्यो भक्तिपूर्वकम् । ब्राह्मण्या चेत् कपिलया भिक्षां दापयसे मुदा ॥ ९३ ॥ १ मांग खं. ॥ 4 For Private & Personal Use Only 10 ॥२५९॥ www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy