SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति द्वितीयः प्रकाश: श्लोकः३० ॥२५८॥ विभूषितं যাশহাম ॥२५८॥ लोकैराक्रुश्यमानोऽसौ राजन्नागत्य ते पुरम् । आश्रयज्जीविकाद्वारं द्वारपालं निराश्रयः ॥८॥ तदान वयमायाता द्वाःस्थोऽस्मद्धर्मदेशनाम् । श्रोतुं प्रचलितोऽमुश्चत् तं विप्रं निजकर्मणि ॥६९॥ द्वारोपविष्टः स द्वारदुर्गाणामग्रतो बलिम् । जन्मादृष्टमिवामुक्त यथेष्टं कष्टितः क्षुधा ॥७॥ आकण्ठं परिभुक्तान्नदोषाद् ग्रीष्मोष्मणा च सः । उत्पन्नया तृषाऽकारि मरुपान्थ इवाकुलः ॥७१।। तत्तु द्वाःस्थभिया म्थानं त्यक्त्वा नाऽगात् प्रपादिषु । असौ जलचरान् जीवान् धन्यान् मेने तृषातुरः ॥७२॥ आरटन वारि वारीति स तृषार्तों व्यपद्यत । इहैव नगरद्वारवाप्यामजनि दरः ॥७३॥ विहरन्तो वयं भूयोऽप्यागमामेह पत्तने । लोकोऽस्मद्वन्दनाथं च प्रचचाल ससम्भ्रमः ॥७४।। अस्मदागमनोदन्तं श्रुत्वाऽम्भोहारिणीमुखात् । स भेकोऽचिन्तयदिदं क्वाप्येवं श्रुतपूर्व्यहम् ॥७५।। ऊहापोहं ततस्तस्य कुर्वाणस्य मुहुर्मुहुः । स्वमस्मरणवज्जातिस्मरणं तत्क्षणादभूत् ।।७६॥ स दध्यौ दर्दरश्चैवं द्वारे संस्थाप्य मां परा। द्वाःस्थो यं वन्दितमगात स आगाद् भगवानिह ॥७॥ यथैते यान्ति तं द्रष्टुं लोका यास्याम्यहं तथा । सर्वसाधारणी गङ्गा न हि कस्यापि पैतृकी ॥७८॥ ततोऽस्मद्वन्दनाहेतोरुत्प्लुत्योत्प्लुय सोऽध्वनि । आयांस्तेऽश्वखुरक्षुण्णो मेकः पञ्चत्वमाप्तवान् ॥७९॥ दर्दराकोऽयमुत्पेदे देवोऽस्मद्भक्तिभावितः। भावना हि फलत्येव विनाऽनुष्ठानमप्यहो ॥८॥ १द्वास्थ खं. ॥ २ पूर्वाहं खं.॥ Jain Education Intel For Private & Personal Use Only a w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy