SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ||२५|| तूर्णमेत्य शतानीकं व्यजिज्ञपदसाविदम् । याति क्षीणवलस्तेऽरिभग्नदंष्ट्र इवोरगः ॥२८॥ यद्यद्योत्तिष्ठसे तस्मै तदा ग्राह्यः सुखेन सः । बलीयानपि खिन्नः सन्नखिन्नेनाभिभूयते ।।२९।। तद्वचः साधु मन्वानो राजा सर्वाभिसारतः । निःससार शरासारसारनासीरदारुणः ॥३०॥ ततः पश्चादपश्यन्तो नेशुश्वम्पेशसैनिकाः। अचिन्तिततडित्पाते को वीक्षितुमपि क्षमः ॥३१॥ चम्पाधिपतिरेकाङ्गः कान्दिशीकः पलायितः। तस्य हस्त्यश्वकोशादि कौशाम्बीपतिरग्रहीत् ॥३२॥ हृष्टः प्रविष्टः कौशाम्बी शतानीको महामनाः । उवाच सेडुकं विनं ब्रूहि तुभ्यं ददामि किम् ।।३३॥ विप्रस्तमूचे याचिध्ये पृष्ट्वा निजकुटुम्बिनीम् । पर्यालोचपदं नान्यो गृहिणां गृहिणीं विना ॥३४॥ भट्टः प्रहृष्टो भट्टिन्य तदशेषं शशंस सः। चेतसा चिन्तयामास सा चैवं बुद्धिशालिनी ॥३५॥ यद्यमुना ग्राहयिष्ये नृपाद् ग्रामादिकं तदा । करिष्यत्यपरान् दारान् मदाय विभवः खलु ॥३६॥ दिन प्रत्येक आलोचस्तथाऽग्रासनभोजनम् । दीनारो दक्षिणायां च याच्य इत्यन्वशात् पतिम् ॥३७॥ ययाचे तत्तथा विप्रो राजाऽदात् तद् वदनिदम् । करको ब्धिमपि प्राप्य गृह्णात्यात्मोचितं पयः ॥३८|| प्रत्यहं तत्तथा लेभे प्राप सम्भावनां च सः। पुंसां राजप्रसादो हि वितनोति महार्यताम् ॥३९॥ राजमान्योऽयमित्येष नित्यं लोकन्यमन्त्र्यत । यस्य प्रसन्नो नृपतिस्तस्य कः स्यान्न सेवकः ॥४०॥ अग्रे भुक्तं वालयित्वा बुभुजेऽनेकशोऽप्यसौ। प्रत्यहं दक्षिणालोभाद्धिग्धिग्लोभो द्विजन्मनाम् ॥४१॥ १ यद्य, ग्राहयिष्यामि नृपा शां. ॥२ चालयित्वा मु. । वमयित्वा त्रिषष्टिः १०।९।९२॥ ३ द्विग्जीवितं द्विजन्मनाम् खं.॥ For Private & Personal Use Only ॥२५॥ 15 w.jainelibrary.org Jain Education Intem
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy