SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ॥२५३॥ तस्य प्रियतमे नन्दा-चिल्लणे शीलभूषणे । अभूतां देवकी-रोहिण्याविवाऽऽनकदुन्दुभः ॥२॥ नन्दाया नन्दनो विश्वकुमुदानन्दचन्द्रमाः । नाम्नाऽभयकुमारोऽभूदुभयान्वयभूषणः ॥३॥ राजा तस्य परिज्ञाय प्रकृष्टं बुद्धिकौशलम् । ददौ सर्वाधिकारित्वं गुणा हि गरिमास्पदम् ॥४॥ अन्यदा श्रीमहावीरो विहरन् परमेश्वरः । जगत्पूज्यः पुरे तस्मिन्नागत्य समवासरत् ॥५॥ श्रुत्वा स्वामिनमायातं जङ्गमं कल्पपादपम् । कृतार्थमानी तत्रागान्मुदितः श्रेणिको नृपः ॥६॥ यथास्थानं निषण्णेषु देवादिषु जगद्गुरुः । प्रारेमे दुरितध्वंसदेशनों धर्मदेशनाम् ॥७॥ तदा कुष्ठगलत्कायः कश्चिदेत्य प्रणम्य च । निषसादोपतीर्थेशमलर्क इव कुट्टिमे ॥८॥ ततो भगवतः पादौ निजपूयरसेन सः। निःशङ्कश्चन्दनेनेव चर्चयामास भूयसा ॥९॥ तद्वीक्ष्य श्रेणिकः क्रुद्धो दध्यौ वध्योऽयमुत्थितः। पापीयान् यज्जगभर्तय्येवमाशातनापरः ॥१०॥ अत्रान्तरे जिनेन्द्रेण क्षुते प्रोवाच कुष्ठिकः । म्रियस्वेत्यथ जीवेति श्रेणिकेन क्षुते सति ॥११॥ क्षुतेऽभयकुमारेण जीव वा त्वं म्रियस्व वा । कालसौकरिकेणापि क्षुते मा जीव मा मृथाः ॥१२॥ जिनं प्रति म्रियस्वेति वचसा रुषितो नृपः । इतः स्थानादुत्थितोऽसौ ग्राह्य इत्यादिशद् भटान् ॥१३॥ देशनान्ते महावीरं नत्वा कुष्ठी समुत्थितः । रुरुधे श्रेणिकभटेः किरातेरिव सूकरः ॥१४॥ १ नन्दायां मु.॥ २ गुणो खं.॥ ३ कुपितो खं.॥ ४ शूकरः मु.॥ ॥२५३॥ Jain Education Inter ! For Private & Personal use only Jw.jainelibrary.org.
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy