SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाश: श्लोकः३० ॥२५॥ २५२।। रौद्रध्यानमन्तरेणाऽप्यविवेकाल्लोभाद्वा या शान्तिनिमित्तं कुलक्रमाद्वा हिंसा सा न केवलं पापहेतुः, प्रत्युत विघ्नशान्तिनिमित्तं क्रियमाणा समरादित्यकथोक्तस्य यशोधरजीवस्य सुरेन्द्रदत्तस्येव पिष्टमयकुक्कटवधरूपा विघ्नाय जायेत कल्पेत, अस्मत्कुलाचारोऽयमिति बुद्धयाऽपि कृता हिंसा कुलमेव विनाशयति ॥२९॥ __ इदानी कुलक्रमायातामपि हिंसां परिहरन् पुमान् प्रशस्य एवेत्याह अपि वंशक्रमायातां यस्तु हिंसां परित्यजेत् । स श्रेष्ठः सुलस इव कालसौकरिकात्मजः ॥३०॥ वंशः कुलम् , कुलक्रमायातामपि हिंसां यः परिहरेत् सः श्रेष्ठः प्रशस्यतमः, सुलस इव, तस्य विशेषणं कालसौकरिकात्मजः, कालसौकरिको नाम सौनिकः, तस्यात्मजः पुत्रः। यदाह " अवि इच्छंति य मरणं न य परपीडं कुणंति मणसा वि । जे सुविइअसुगइपहा सोअरिअसुओ जहा सुलसो ॥"[ ] सुलसकथानकं सम्प्रदायगम्यम् । स चायम्महर्द्धि मगधेष्वस्ति पुरं राजगृहाभिधम् । तत्र श्री वीरपादाब्जभृङ्गोऽभूच्छ्रेणिको नृपः ॥१॥ १ हिंसा नास्ति खं.॥ Jain Education Intem For Private & Personal Use Only T w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy