________________
॥२५॥
यातेषु षोडशयुतेषु समाशतेषु सप्तस्वसौ क्षितिपतिः परिपूरितायुः । हिंसानुबन्धिपरिणामफलानुरूपां तां सप्तमी नरकलोकभुवं जगाम ॥५०५॥ २७ ।।
1 [इति ब्रह्मदत्तचक्रवर्त्तिकथानकम् ] पुनरपि हिंसकान् निन्दति
कुणिर्वरं वरं पङ्गुरशरीरी वरं पुमान् ।
अपि सम्पूर्णसर्वाङ्गो न तु हिंसापरायणः ॥२८॥ कुणिर्विकलपाणिः, वरमिति मनागिष्टे मन्तमव्ययम् , पङ्गुः पादविकलः, कुत्सितं शरीरमशरीरं नत्रः कुत्सार्थत्वात् , तद्विद्यते यस्य सोऽशरीरी कुष्ठी, विकलाङ्गाः कुणि-पङ्गु-कुष्ठिनः, ते हि विकलाङ्गत्वादेव हिंसामकुर्वन्तो मनाक् श्रेष्ठाः, सम्पूर्णसर्वाङ्गोऽपि कृतपरिकरबन्धं हिंसापरायणः पुमान्न तु श्रेष्ठः ॥२८॥
ननु रौद्रध्यानपरायणस्य या हिंसा सा नरकहेतुत्वाद् निन्द्याऽस्तु, या तु शान्तिकनिमित्तं प्रायश्चित्तभूता हिंसा या वा कुलक्रमायाता मत्स्यबन्धानामिव सा रौद्रध्यानरहितत्त्वान्न दोषायेत्याह
हिंसा विघ्नाय जायेत विघ्नशान्त्यै कृताऽपि हि ।
कुलाचारधियाऽप्येषा कृता कुलविनाशनी ॥२९॥ १ एतदन्तर्गत: पाठो नास्ति शां. खं. ॥
||२५१॥
Jain Education Inter
For Private & Personal Use Only
w.jainelibrary.org