SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाश: श्लोक: २७ ॥२५॥ ॥२५॥ तच्छ्रुत्वा पार्थिवोऽवोचद्धिग धिग् जातिर्द्विजन्मनाम् । यत्रैते भुञ्जते पापास्तत्र भान्ति भाजनम् ॥४९२॥ यः स्वामीयति दातारं दत्तं तस्मै वरं शुने । न जातु दातुमुचितं कृतनानां द्विजन्मनाम् ॥४९३॥ वञ्चकानां नृशंसानां श्वापदानां पलादिनाम् । सृष्टिं द्विजानां योऽकार्षीन्निग्राह्यः प्रथमं हि सः ॥४९४॥ इति जल्पन्ननल्पक्रुत् पृथ्वीपतिरघातयत् । सपुत्र-बन्धु-मित्रं तं विप्रं मशकमुष्टिवत् ।।४९५।। दृशोरन्धीकृतस्तेन हृदयेऽन्धीकृतः क्रुधा । विप्रान् सोऽघातयत् सर्वान् पुरोधःप्रभृतीनपि ।।४९६।। सोऽमात्यमादिदेशैवं नेत्ररेषां द्विजन्मनाम् । विशालं स्थालमापूर्य निधेहि पुरतो मम ॥४९७॥ रौद्रमध्यवसायं तं राज्ञो विज्ञाय मन्त्र्यपि । श्लेष्मातकफलेः स्थालं पूरयित्वा पुरो न्यधात् ॥४९८।। मुमुदे ब्रह्मदत्तोऽपि पाणिना संस्पृशन मुहुः । विप्राणां लोचनैः स्थालं साधु पूर्णमिति ब्रुवन् । ४९९॥ स्पर्श स्त्रीरत्नरूपायाः पुष्पवत्यास्तथा न हि । यथाऽऽसीद् ब्रह्मदत्तस्य तत्स्थालस्पर्शने रतिः ॥५००॥ न कदाचन स स्थालमपासारयदग्रतः। दुर्मदी मदिरापात्रमिव दुर्गतिकारणम् ।।५०१।। विप्रनेत्रधियाऽमृद्नात् श्लेष्मातकफलानि सः। फलाभिमुखपापद्रोः सज्जयन्निव दोहहम् ।।५०२।। तस्यानिवर्तको रौद्राध्यवसायोऽत्यवर्द्धत । अशुभं वा शुभं वाऽपि सर्व हि महतां महत् ॥५०३॥ तस्यैवं वसुधेशस्य रौद्रध्यानानुबन्धिनः । पापपङ्कवराहस्य ययुर्वर्षाणि षोडश ५०४॥ १धिग जातिद्विजन्मनां शां. । धिग् जातिजन्मनां खं ॥ For Private & Personal Use Only Jain Education Intel wwe.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy