SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ॥२४९॥ ब्रह्मदत्तोऽपि संसारसुखानुभवलालसः । सप्तातिवाहयामास शतानि शरदा क्रमात् ॥४७८॥ कदाचित् प्रापरिचितो द्विनः कश्चिज्जगाद तम् । चक्रवर्त्तिन् स्वयं भुङ्क्ष यत् तन्मे देहि भोजनम् ।।४७९॥ ब्रह्मदत्तोऽप्यवोचत्तं मदन्नं द्विज दुर्जग्म् । चिरेण जीर्यमाणं तु महोन्मादाय जायते ॥४८०॥ कदर्योऽस्यन्नदानेऽपि धिक् त्वामिति वदन् द्विजः । अभोजि सकुटुम्बोऽपि भूभुजा भोजनं निजम् ।।४८१॥ निशायामथ विप्रस्य बीजादिव तदोदनात् । शतशाखः स्मरोन्मादतरुः प्रादुरभृद् भृशम् ।।४८२।। अज्ञातजननी-जामि-स्नुषाव्यतिकरं मिथः । पशुवत् सहपुत्रोऽपि विप्रः प्रववृते रते ॥४८३।। ततो विरामे यामिन्या द्विजो गृहजनश्च सः। हिया दर्शयितुं स्वास्यमन्योन्यमपि नाऽशकत् ॥४८४॥ क्रूरेणानेन राज्ञाऽस्मि सकुटुम्बो विडम्बितः। चिन्तयनित्यमर्पण नगरानिरगाद् द्विजः ॥४८५॥ दरादश्वत्थपत्राणि काणयन शर्कराकणैः । तेन कश्चिदजापालो ददृशे भ्रमता बहिः॥४८६।। मरिसाधनायाऽलमसाविति विमृश्य सः। तं मूल्येनेव सत्कारेणाऽऽदायैवमवोचत ॥४८७।। राजमार्ग गजारूढो यः श्वेतच्छत्रचामरः । याति कृष्ये दृशौ तस्य त्वया प्रक्षिप्य गोलिके ॥४८८।। विप्रवाचमजापालः प्रतिपेदे तथैव ताम् । पशुवत् पशुपाला हि न विमृश्यविधायिनः ॥४८९।। सोऽथ कुड्यान्तरे स्थित्वा समं प्रक्षिप्य गोलिके । अस्फोटयद् दृशौ राज्ञो नाज्ञा लङ्घया विधेः खलु ॥४९०॥ सोऽङ्गरक्षरजापालः प्राप्तः श्येनैरिव द्विकः । हन्यमानस्तमेवाख्यद्विपं विप्रियकारकम् ॥४९१॥ १-ख. च. छ. । आस्फो शां. खं. मु.॥ २ द्विजः शां. । विकैः खं.॥ ॥२४९|| Jain Education Interne For Private & Personal use only w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy