SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ स्वोपन वृत्तिविभूषितं द्वितीयः प्रकाश: श्लीक: २७ ||રા . योगशास्त्रम् ॥२४८॥ आशीर्वादं मुनिर्दत्वा कृपारसमहोदधिः । अनुग्रहार्थ भूपस्य प्रारेभे धर्मदेशनाम् ॥४६४॥ राजन्नसारे संसारे सारमन्यन्न किश्चन । सारोऽस्ति धर्म एवैकः सरोजमिव कर्दमे ॥४६५॥ शरीरं यौवनं लक्ष्मीः स्वाम्यं मित्राणि बन्धवः । सर्वमप्यनिलोद्धतपताकाञ्चलचञ्चलम् ॥४६६॥ बहिरङ्गान् द्विषोऽजैषीर्य्यथा साधयितुं महीम् । अन्तरङ्गान् जय तथा मोक्षसाधनहेतवे ॥४६७॥ गृहाण यतिधर्म तत् पृथक्कृत्य त्यजापरम् । राजहंसो हि गृह्णाति विभज्य क्षीरमम्भसः ॥४६८॥ ब्रह्मदत्तस्ततोऽवादीद् दिष्ट्या दृष्टोऽसि बान्धव । इयं तवैव राज्यश्री क्ष्व भोगान् यथारुचि ।।४६९।। तपसो हि फलं भोगाः सन्ति ते किं तपस्यसि । उपक्रमेत को नाम स्वतः सिद्धे प्रयोजने ॥४७०॥ मुनिरूचे ममाप्यासन् धनदस्येव सम्पदः। मया तास्तृणवस्यक्ता भवभ्रमणभीरणा ॥४७१॥ सौधर्मात् क्षीणपुण्योऽस्मिन्नागतोऽसि महीतले । इतोऽपि क्षीणपुण्यः सन् राजन् मा गा अधोगतिम् ॥४७२॥ आर्ये देशे कुले श्रेष्ठे मानुष्यं प्राप्य मोक्षदम् । साधयस्यमुना भोगान् सुधया पायुशौचवत् ।।४७३।। स्वर्गाच्च्युत्वा क्षीणपुण्यौ भ्रान्तावावां कुयोनिषु । यथा तथा स्मरन् राजन् किं बाल इव मुह्यसि ।।४७४|| तेनेवं बोध्यमानोऽपि नाबुद्ध वसुधाधवः । कुतः कृतनिदानानां बोधिबीजसमागमः ॥४७५॥ तमबोध्यतमं बुद्धवा जगाम मुनिरन्यत: । कालादिष्टाहिना दष्टे कियत्तिष्ठन्ति मान्त्रिकाः ॥४७६।। घातिकर्मक्षयात प्राप्य केवलज्ञानमुत्तमम् । भवोपग्राहिकर्माणि हत्वा प्राप परं पदम् ॥४७७॥ Jain Education Inter For Private & Personal Use Only www .jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy