________________
||२४७||
ब्रह्मदत्तस्तु तं दृष्ट्वा दृष्टपूर्वो मयेदृशः । कुत्रापीति व्यधादन्तरूहापोहं मुहुर्मुहुः ॥४५२॥ प्राक्पञ्चजन्मस्मरणोत्पत्तेस्तत्कालमेव च । मूछित्वा ज्ञातवानेतं सौधर्मे दृष्टवानिति ॥४५३॥ स सिक्तश्चन्दनाम्भोभिः स्वस्थीभूयेत्यचिन्तयत् । कथं मिलिष्यति स मे पूर्वजन्मसहोदरः ॥४५४॥ तं ज्ञातुकामः श्लोकार्द्धसमस्यामेवमार्पयत् । 'आस्व दासौ मृगौ हंसौ मातङ्गावमरौ तथा' ॥४५५॥ अर्द्धश्लोकसमम्यां मे य इमां पूरयिष्यति । राज्या? तस्य दास्यामीत्यसावाघोषयत् पुरे ॥४५६॥ श्लोकार्द्ध तत्तु सर्वोऽपि कण्ठस्थं निजनामवत् । पठन्नकार्षीत् पश्चाद्धं न चापूरिष्ट कश्चन ॥४५७।। तदा च पुरिमतालाच्चित्रजीवो महेभ्यसः। जातिस्मृतेः प्रबजितो विहरन्नेक आययौ ॥४५८॥ तत्र कस्मिंश्चिदुद्याने प्रासुकस्थण्डिलस्थितः । श्लोकार्द्ध तन्तु पठतः सोऽश्रौषीदारघट्टिकात् ।।४५९।। 'एषा नौ षष्ठिका जातिरन्योन्याभ्यां वियुक्तयोः ।' श्लोकापरार्द्धमेवं स सम्पूयं तमपाठयत् ॥४६०||
लोकापरार्द्ध तद्राज्ञः पुरस्तादारघट्टिकः । पपाठ कः कविरिति तत्पृष्टस्तं मुनि जगौ ॥४६१।। स पारितोषिकं तस्मै वितीर्योत्कण्ठया ययौ। तत्रोद्याने मुनि द्रष्टुं धर्मद्रुममिवोद्गतम् ॥४६२।। वन्दित्वा तं मुनि तत्र वाष्पपूर्णविलोचनः । निषसादान्तिके राजा सस्नेहः पूर्वजन्मवत् ॥४६३॥
१ -क. ख. च. ड.। सौधर्म दृष्टवानेतदित्यज्ञासीन्महीपतिः मु.। मूच्छित्वाऽबुधदीवृक्षं सौधर्म दृष्टवानितित्रिषष्टिः ९।१।४८७॥ २ मेलिष्यति मु.॥ ३ वो मु.॥ विहरन्नेकदाऽऽययौ मु.॥
||२४७||
Jain Education Intem
For Private & Personal Use Only
W
ww.jainelibrary.org