SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ॥२४३॥ मम चेोजनं दत्थ साक्षाद् वरधनोहि तत् । इति श्रुतिसुधेवाऽस्य श्रुता वाग् ब्रह्ममनुना ॥४०२॥ स तं दृष्ट्वा परिष्वङ्गादेकीकुर्वन्निवात्मना। स्नपयन्निव हर्षानिनायाऽन्तर्गृहं ततः ॥४३॥ ऊचे पृष्टः कुमारेण स्ववृत्तं सोऽथ यत्तदा । सुप्ते त्वयि निरुद्धोऽहं चौरैर्दीर्घभटैर्यथा ॥४०४॥ वृक्षान्तरस्थितेनैकदस्युनकेन पत्रिणा । हतोऽहं पतितः पृथ्व्या तिगेऽधां च लतान्तरे ॥४०५।। गतेषु तेषु चौरेषु मध्येवृक्षं तिरोभवन् । आतिरन्तर्जलमिव क्रमेण ग्राममामवम् ॥४०६।। भवत्प्रवृत्ति ग्रामेशाद्विज्ञायाऽहमिहाऽऽगमम् । दिष्ट्याऽपश्यं भवन्तं च कलापीच पयोमुचम् ॥४०७॥ अथोचे ब्रह्मदत्तस्तमस्माभिः स्थास्यते ननु । विना पुरुषकारेण क्लीबैरिव कियच्चिरम् ॥४०८|| अत्रान्तरे च सम्प्राप्तसाम्राज्यमकरध्वजः। मधुवन्मदको यूनां प्रादुरासीन्मधूत्सवः ॥४०९।। तदा च राज्ञो मत्तेभः स्तम्भं भक्त्वाऽपशृङलः । निर्ययौ त्रासिताशेषमयों मृत्योरिवाऽनुजः॥४१॥ ततो नितम्बमारा काञ्चित् कन्यां स्खलद्गतिम् । करी करेण जग्राहाऽऽकृष्य पुष्करिणीमिव ॥४११।। तस्यां च शरणार्थिन्यां क्रन्दन्त्यां दीनचक्षुषि । जज्ञे हाहारवो विश्वदुःखबीजाक्षरोपमः ॥४१२।। रे मातङ्गाऽसि मातङ्गः स्त्रियं गृहन्न लजसे । इत्युक्तः स कुमारेण तां विमुच्य तमभ्यगात् ॥४१३॥ १ स्वं वृत्तं शां. ॥ २ आडि त्रिषष्टिः ९।१।४०७। आति: पक्षिविशेषः ॥ ३ 'माप्नुवम्-प्रतिषु । 'मानवम् त्रिषष्टि०९।१।४०७॥ मादको त्रिषष्टि०९।१।४१०॥ ५ चण्डालः॥ ॥२४॥ Jain Education Inter For Private & Personal Use Only ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy