SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति द्वितीयः प्रकाश: श्लोक: २७ ॥२४२॥ विभूषितं योगशास्त्रम् ॥२४२॥ ककककककककककककककककककककककककककक यदास्मद्भाग्यवैगुण्यानागतोऽसि न वेक्षितः। भ्रान्वा सर्वत्र निर्विण्णे आवामिह तदागते ॥३८९॥ पुण्यैरसि समायातः पुरा पुष्पवतीगिरा । वृतोऽसि वरयाऽऽवां तद् गतिरेकस्त्वमावयोः ॥३९०॥ गान्धर्वेण विवाहेन स उपायंस्त ते अपि । भोगी हि भाजनं स्त्रीणां सरितामिव सागरः ॥३९१॥ रममाणः समं ताभ्यां गङ्गोमाभ्यामिवेश्वरः। तत्राऽतिवाहयामास तां निशां ब्रह्मनन्दनः ॥३९२॥ यावन्मे राज्यलाभः स्यात् पुष्पवत्याः समीपतः। तावद्युत्राभ्यां स्थातव्यमित्युक्त्वा व्यसृजच्च ते ॥३९३॥ तथेत्यादृतवत्यौ ते स लोकस्तञ्च मन्दिरम् । गन्धर्वनगरमिव ततः सर्व तिरोदधे ॥३९४।। अथाश्रमे रत्नवतीमन्वेष्टुं ब्रह्मसूरगात् । अपश्यस्तत्र पप्रच्छ नरमेक शुभाकृतिम् ।।३९५।। दिव्याम्बरधरा नारी रत्नाभरणभूषिता । कापि दृष्टा महाभाग त्वयाऽतीतदिनेऽद्य वा ॥३९६॥ स ऊचे नाथ नाथेति रुदती ह्यो मयेक्षिता। प्रत्यभिज्ञाय नषीति तपितृव्याय चार्पिता ॥३९७।। तद्वरोऽसीति तेनोक्तस्तथेति ब्रह्मसूर्वदन् । निन्ये तेन प्रहृष्टेन तत्पितृव्यनिकेतनम् ॥३९८॥ रत्नवत्या पितृव्योऽपि ब्रह्मदत्तं व्यवायत् । ऋद्ध्या महत्या धनिनां सर्वमीषत्करं यतः ॥३९९।। तया विषयसौख्यानि समं सोऽनुभवन्नथ । मृतकार्य वरधनोरपरेयुः प्रचक्रमे ॥४००॥ साक्षादिव परेतेषु भुआनेषु द्विजन्मसु । विप्रवेषो वरधनुस्तत्रागत्याऽब्रवीदिति ॥४०१॥ १ चेक्षित: मु. खं.॥ २ रत्नवत्याः खं. त्रिषष्टिः ९। १। ४०० ।। Jain Education Inten For Private & Personal Use Only R w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy