SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ॥२४१॥ स्नानं विलेपनं पूजां विरचय्य यथाविधि । तात्रिः प्रदक्षिणीकृत्याऽवन्दामहि समाहिताः ॥३७६॥ प्रासादानिःसृतैर्दृष्टौ रक्ताशोकतरोरधः । चारणश्रमणौ मूर्तिमन्ताविव तपःशमौ ॥३७७॥ तौ प्रणम्योपविश्याग्रे शुश्रुम श्रद्धया वयम् । अज्ञानतिमिरच्छेदकौमुदी धर्मदेशनाम् ॥३७८॥ पप्रच्छाऽग्निशिखः कः स्यात् कन्ययोरनयोः पतिः। तावूचतुर्यों ह्यनयो(तरं मारयिष्यति ॥३७९॥ हिमेनेव शशी म्लानो जातस्तातस्तया गिरा। आवामपीत्यवोचाव वाचा वैराग्यगर्भया ॥३८०॥ संसारासारतासारा देशनाद्यैव शुश्रुवे । तद्विषादनिषादेन किं तात परिभूयसे ।।३८१॥ अलमस्माकमप्येवंविधैर्विषयजैः सुखैः । प्रवृत्ते तत्प्रभृत्यावां त्रातुं निजसहोदरम् ॥३८२।। भ्राम्यन्नपश्यन्मे भ्राताऽन्यदा पुष्पवतीमसौ । मातुलस्य त्वदीयस्य पुष्पचूलस्य कन्यकाम् ॥३८३॥ रूपेणाद्भुतलावण्यपृण्येन हृतमानसः। तां जहार स दुर्बुद्धिबुद्धिः कर्मानुसारिणी ॥३८४॥ सोऽसहिष्णुर्दृशं तस्या विद्यां साधयितुं ययौ । स्वयं संविद्रते सम्यग् भवन्तस्तु ततः परम् ॥३८५।। तदा च पुष्पवल्याख्यदावयोर्भ्रातृसङ्क्षयम् । शोकं धर्माक्षरैः शोकापनोद इव चानुदत् ॥३८६।। अन्यच्च पुष्पवत्यूचेऽभिगम्योऽयमिहागतः। ब्रह्मदत्तोऽस्तु वां भर्ता नान्यथा हि मुनेगिरः ॥३८७।। स्वीकृतं च तदावाम्यां तया च रभसावशात् । पताकाञ्चालि धवला त्यक्त्वा वा त्वं गतस्ततः ॥३८८॥ ॥२४॥ Jain Education Internet For Private & Personal use only v.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy