SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ॥२३९॥ सोऽलब्धप्रतिवाग् दृष्ट्वा स्थाग्रं रक्तपङ्किलम् । विलपन् हा हतोऽस्मीति मूच्छितो न्यपतद् रथे ॥३५०॥ उत्थितो लब्धसंज्ञः सन् हाहा वरधनो सखे । क्वासीति लोकवत् क्रन्दन् रत्नवत्येत्यबोधि सः ॥३५१॥ विपन्नो ज्ञायते नैव स तावद् भवतः सखा। तस्य वाचाप्यमङ्गल्यं नाथ कर्तुं न युज्यते ॥३५२॥ त्वत्कार्याय गतः क्वापि स भविष्यत्यसंशयम् । यान्ति नाथमपृष्ट्वापि नाथकार्याय मन्त्रिणः ॥३५३॥ स तवोपरि भक्त्यैव रक्षितो नूनमेष्यति । स्वामिभक्तिप्रभावो हि भृत्याना कवचायते ॥३५४॥ स्थाने प्राप्ताः करिष्यामो नरैस्तस्य गवेषणम । यज्यते नेह त स्थातमन्तकोपवने वने ॥३५५।। तद्वाचा सोऽनुदद् रथ्यान् प्रपेदे मगधक्षितेः। सीमग्रामं दविष्ठं हि वाजिनां मरुतां च किम् ॥३५६।। ग्रामेशेन सदस्थेन दृष्ट्वा निन्ये स्ववेश्म सः । अज्ञाता अपि पूज्यन्ते महान्तो मूर्तिदर्शनात् ॥३५७॥ शोकाक्रान्त इवासीति पृष्टो ग्रामाधिपेन सः । इत्यूचे मत्सखा चौरैयुध्यमानो गतः क्वचित् ।।३५८।। तस्य प्रवृत्तिमानेष्ये सीताया इव मारुतिः । इत्युक्त्वा ग्रामणीः सर्वां तां जगाहे महाटवीम् ॥३५९॥ अर्थत्य ग्रामणीरूचे दृष्टः कोऽपि वने न हि । प्रहारपतितः किन्तु प्राप्त एष शरो मया ॥३६०॥ हतो वरधनुनूनमिति चिन्तयतस्ततः । ब्रह्ममनोः शोक इव तमोभूरभवन्निशा ॥३६१।। यामे तुरीये यामिन्यास्तत्र चौराः समापतन् । ते तु भग्नाः कुमारेण मारेणेव प्रवासिनः ॥३६२।। १ मांगल्यं मु.॥ २ एकः ड॥ ३ करो शां.॥ ॥२३९॥ Jain Education Intel For Private & Personal Use Only S ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy