SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् !!२३८|| Jain Education Inti एह्येहि मां वरना चिरादिह । विध्यापय पयः पूरेणेव सङ्गेन सम्प्रति ॥ ३३७|| तथेति प्रतिपद्याsस्या अनुरागमिवाऽलघुम् । सोऽधितष्ठौ स्थं तां च गन्तव्यं क्वेति पृष्टवान् ||३३८|| सेत्यूचे मगधपुरे मत्पितृव्यो धनावहः । अस्ति श्रेष्ठयावयोर्बह्रीं प्रतिपत्तिं स दास्यति ॥ ३३९॥ तदितस्तत्र गन्तव्यमिति रत्नवतीगिरा । ब्रह्मसूर्मन्त्रिपुत्रेण सूतेनाऽश्वाननोदयत् ||३४० ॥ कौशाम्बीदेशमुख क्षणेन ब्रह्मनन्दनः । क्रीडास्थानं यमस्येव प्राप भीमां महाटवीम् || ३४१|| सुकण्टकः कण्टकच तत्र चौरचमूपती । ब्रह्मदत्तं रुरुधतुः श्वानाविव महाकिरिम् || ३४२ ॥ ससैन् युगपत् कालरात्रिपुत्राविवोत्कटौ । शरैर्नभोमण्डपवच्छादयामासतुश्च तौ ॥ ३४३ ॥ आत्तधन्वा कुमारोऽपि गजैश्चरवरूथिनीम् । निषिषेधेषुभिर्धारासारैर्देवमिवाम्बुदः || ३४४ ॥ कुमारे वर्षति शरान् ससैन्यौ तौ प्रणेशतुः । दन्त प्रहारिणि हरौ हरिणानां कुतः स्थितिः || ३४५ || कुमारं मन्त्रिरेवमूचे श्रान्तोऽसि सङ्गरात् । मुहूर्त्त स्वपिहि स्वाभिस्तदिहैव रथे स्थितः || ३४६॥ स्यन्दने ब्रह्मदत्तोऽपि रत्नवत्या समन्वितः । सुष्वाप गिरिनितम्बे करिण्येव करी युवा || ३४७॥ विभातायां विभावय प्राप्यैकामथ निम्नगाम् । तस्थुः श्रान्तास्तुरङ्गाश्च कुमारश्च व्यबुध्यत || ३४८ || विबुद्धस्तु स नापश्यत्म्यन्दने मन्त्रिनन्दनम् । पयसे किं गतः स्यादित्यसकृद् व्याजहार तम् ॥ ३४९ ॥ १ गिरिणितम्बे खं. ॥ २ करण्येव शां. खं. ॥ For Private & Personal Use Only +0:0002005:00000000000000000000000 द्वितीय: प्रकाश: श्लोक: २७ ॥२३८|| 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy